विशिष्टाद्वैतसिद्धिः प्रथमः नासतोऽदृष्टत्वादिति सूत्रं न टुच्छकारणत्वनिषेधपरम् । वैभाषिक सौत्रान्ति सिद्धान्त निराकर परसमुदायाधिकरणस्थं हि इदं सूत्रम् | तत्र चैवं भाष्यम् – “इनश्चानुपपन्नो वनाशिकसमयः, यतः स्थिर मनुयायि कारणमनभ्युपगच्छताममाात् भावोत्पत्तिरित्येतदापद्यते ।... तस्माद- भावमस्तेभ्यो बांजादिभ्योऽङ्करादीना मुहश्यमानत्वादभाबाद् भावोत्प त्तिरिति मन्यते । तत्रेदमुच्यते 'नासतोऽष्टत्वान्' इति । नाभावाद् भाव उत्पद्यत इत्यादि । एवदुपपादकतया च अदृष्टत्वादिनि हेत्वंश- विवरण तात्पर्येण “शशविषाणादिभ्योऽप्यकुरादयो जायेरन” "तस्माद् सद्भचः शशविपण्णादिभ्यः सदुत्पत्त्यदर्शनात्” इत्यादि भापितं, अभाव- ग्रस्तेभ्यो बीजादिभ्योऽङ्कुरात्तौ अनुपपत्तप्रदर्शनाथतया । न तु स्वार्थप्राधान्येन | तस्मात् श्रुतिसून स्वभाध्यवरुद्धमेदं असतः साधक- त्याभिधानम् । ७६ एतेन प्रत्यक्षप्रामाण्यस्य निथ्यात्वात् तत्समर्पिता श्रुतिरपि मियेति, तदुत्यज्ञानप्रामाण्यस्य मिथ्यात्वात् तदविगभ्यं मिथ्येति च - दर्शितं भवति । अत्राह - " न च तथापि वेदान्ततज्ज्ञानप्रामाण्यमिथ्यात्वे कथं तात्त्विकाद्वैतसिद्धिरिति वाच्यम् । शब्दतज्ज्ञानतात्विकत्वं हि न विषयतात्विकत्वे तन्त्रम् | इदं रजतमित्यनाप्तवाक्यस्य तज्जन्यभ्रमस्य च त्वन्मते तात्विकत्वेऽपि तद्विषयस्यातात्विकत्वात् ” — इति । वश्चक- वचनमात्रमेतत् । अग्न्यभावे धूमः कथं स्यादिति प्रश्ने 'अग्निसत्त्वं हि धूमसत्त्वे न तन्त्रम् | अयोगोले तत्सत्त्वेऽपि तद्भावात्' इति वचन यादृशं तादृशं खल्विदम् । यत्र यत्र वचनतद्ज्ञानमिथ्यः त्वं सत्र तत्र विपयस्य तात्त्विक्त्वं नास्तीत्युच्यते । न तु यत्र यत्र तत्सत्यत्वं त्तत्र तत्र तद्विषयतात्त्विकत्वमिति | केवलं व्यामोहनभिम् । पुनर- प्याह "प्रामाण्यमथ्यात्वं हि न विषयमिथ्यात्वे प्रयोजकम् । भ्रमप्रमा- बहिर्भूते निर्विकल्पके विषयबाघाभावात् । किन्तु तद्भाववत तत्प्रकार-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति