७८ विशिष्टाद्वैतसिद्धिः प्रथमः मर्हति । वह्निमान् धूमादित्यत्र यदि सत्यपि धूमे वह्निर्न स्यात् तर्हि धूमो वह्निजन्यो न स्यात् । वह्निजन्यश्च धूमः | तस्माद् वह्निमान् इति यथा तथा । तत्र धूमस्य वह्निजन्यत्वं यथा पदद्वये सम्प्रतिपन्नं तथा दृग्दृश्यसम्बन्धे सम्प्रतिपन्ने सत्येव अयं तर्क इहावकाशं लभेत । योऽयं सम्बन्ध वर्तने सोऽन्या नोपपद्येति सम्बन्धस्य सिद्धस्य हि अनुप- पत्तिरापादनीया | भवता तु तत्रैव विप्रतिपत्तिं कृत्वा इह विचारः स सम्बन्धस्तात्विकः अध्यासतिद्धां वेति । तत्र च तात्विकस्यासम्भ- चात् आध्यासिक एवेति स्थापयितुमिष्यते । एवं सति स्वतन्त्रमिदं साध- नान्तरं मिथ्य त्रे अवलम्बितं भवति, दृग्दृश्ययास्तात्त्वि कसम्बन्धानुन- पत्तिरपि प्रपञ्चमिथ्यात्त्रमापादयतीति । तत्र अनुकूलतर्कत्वाभिधानं नोपपद्यते । तथा हि । दृग्दृश्यसम्बन्धानुपपत्तेरित्यत्र किं सामान्यतः सम्पन्धा- नुपपत्तिर्विवक्षिता, यद्वा तात्त्विक सम्बन्धानुपपत्तिः अथवा आध्यासिक- सम्बन्धानुपपत्तिः । नाद्यः | कस्यचित्सम्बन्धस्य उपपन्नतया सर्वैरभ्युप- गतत्वेन सामान्यतः सम्बन्धानुपपत्तेरापादयितुमशक्यत्वात् । न द्वितीयः | विरुद्धत्वात् । मिथ्यावे हि तात्त्विकसम्बन्धानुपपत्तिः । न तु तद्भावे | न च तात्त्विकसम्बन्धो भवत इष्टः, येन तद्नुपपत्तिरापाद्येत । न तृतीयः | आभ्यासिकसम्बन्धानुपपत्तेः परस्येष्टत्वेन तं प्रति तदापाद- नासम्भवात् । किञ्च दृश्यत्वं नाम दृक्सम्बन्ध एव । तत्र लिङ्गं दृश्यत्व- मस्तु साध्यं मिथ्यात्वं मा भूदित्यप्रयोजकत्ववादिनं प्रति साध्यम्य मिथ्या- त्वस्याभावे लिङ्गं दृश्यत्वं नोपपद्यत इतीयमापत्तिः ऋथं भवेत् | साध्याभा- वेऽपि हेतुसत्त्वमुपपद्यत इत्येव हि परस्याभिप्रायः । तं प्रति नोपपद्यत इत्येतावन्मात्रकथनेन किं कृतं भवति । अनेनापि हेतुनाऽयं अतर्कः । न हि धूमलिङ्गस्थले ‘धूमोऽस्तु वह्निर्मा भूत्' इति वादिनं प्रति यदि वह्निर्न स्यात् तर्हि धूमो न स्यात् इत्ययं तर्कों भवति ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति