पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः दृग्दृश्यसम्बन्धः ७ किञ्च दृश्यत्वादिति भवत्प्रयुक्तं हेतुं शृण्वतः परस्य स्वमतानुरोधेन तात्त्विक एव हक्सम्बन्धोऽभिप्रेत इति धीः स्वभावतो भवति । अथ तु आध्यासिक एव सः न तात्विक इति कथने परं प्रति हेतुरसिद्धो भवति । तात्विकस्यैव तस्य प्रपन्चे तेनेष्यमाणत्वात् । आध्याम्विन्ध- विरहात् । दृष्टान्तेऽपि तेनास्याग्रहीतत्वेन व्याप्त्यसिद्धिञ्च | तद्यथा कश्चित् साधनं प्रयुञ्जीत धूमाभाववान् वह्नो रिति, तर्कं च धूमसत्त्वे वह्निसम्बन्धा- नुपपत्तिरिति । कथं वह्निसम्बन्धानुपपत्तिरिति पृष्टश्च विवृणुयात् न हि पक्षे वस्तुतः वह्निरस्ति किन्त्वव्यस्त एवेति, तादृगिदं भवति । अथ हेतु- तथा निर्दिष्टं वृत्तिव्याप्यत्वादिरूपं दृश्यत्वमन्यत् । अन्य स्वायं दृक्सम्बन्धः यस्थानुपपत्तिरिहोच्यत इति चेत् अस्त्वम् । किन्तु दृश्य- त्वहेतोरप्रयोजकत्वमपरिहृतं भवति । हॠदृश्यसम्बन्धानुपपत्तेः । स्वात- न्ध्येण मिथ्यात्त्रप्रयोजऋत्वात् । हेतोः प्रयोजकत्वानुपपादकत्वात् । इदमपारमसामञ्जस्यमवद्धाना एव प्राज्ञाः किमत्रार्थापत्त्या मिथ्या- त्वसाधनमभिप्रेतं स्यादिति कल्पान्तरमुत्प्रेक्ष्य विमृशन्ति । वृथैव तु तेभ्यः कुप्यत्यत्र भवान् 'अनुकूलतर्कस्यैव प्रक्रान्तत्वेनार्थापतिर्वेत्यादि- विकल्पानवकाशात्' इति वदन् । अर्थापत्तिरपीयं न भवति । तथा हि यदुच्यते--सत्वत्त्रे दृग्दृश्य सम्बन्धानुपपतिः | मिथ्यात्वं च तदुपपादकम्, इति । तन्न । घटस्येदं ज्ञानं, इदं पटस्य, एतद्ज्ञानग्राह्यो घटः एत- ग्राह्यः पवः इति हि सार्वत्रिकौ प्रतीतिव्यवहारौ भवतः । तत्र काऽनु- प्रमत्तिः, यस्याः परिहाराय विषयमिथ्यात्वमपेक्षणीयं स्यात् । अनुपपत्ति- प्रतिसन्धानमत्र नैत्र भवति । कारणाभावात् । तथा च सामान्यतस्स- म्बधरूपस्य हग्विषयत्वस्य आपकत्वं नास्ति । अत एव मिथ्यात्वस्यों- पपादकत्वमपि नास्ति । अनपेक्षितत्वात् । सम्बन्धक इति विशेष निरूपणे संयोगसमवाययोः प्रसिद्धयोः सम्बन्धयोर्व्यतिरेकाव- धारणात् न तद्नुपपतिरिहार्थापत्तिः, नापि मिथ्यात्वं कल्पनीयम् । परि-