परिच्छेदः ज्ञायते । विन्ध्यहिमाचलयोरदर्शनादिति चेत् जलेऽदर्शनात् अग्नेरपि उष्णस्पर्शो न भवेत् । प्रत्यक्षसिद्धोऽयमिति चेन्न । तथैव ज्ञानज्ञ ययो- विंप्रकृष्टयोरपि सम्बन्धसिद्धेः । अन्यदृष्टान्तसाम्यस्याननुरोद्धव्यत्वात् । ननु बाह्यस्यार्थस्यासम्भवाद् बहिर्वदवभासत इत्यध्यवसितम् | नायं साधुरध्यवसायो यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वक सम्भवासम्भवाव- वधःर्येते । न पुनः सम्भवासम्भवनू वेंके, प्रमाणप्रवृत्त्यप्रवृत्ती । इत्यभावाधिकरणसूत्रभाष्योक्तन्याय इहात्यन्तमवधेयः । ननु कोऽयं सम्बन्ध इनि चेन्न | विषयविपयिभाव इति सर्वप्रसिद्धत्वात | ज्ञानस्य स्वनिरूपितं विषयत्वं ज्ञयेन सम्बन्धः, ज्ञो यस्य स्वनिरूपितविषयित्वं ज्ञानेनेत्युक्तं भवति । संयोगादेरभावेऽपि ध्वंसादि प्रतियोगित्ववत् अभाव - पृथक्त्ववादिनां विशेषणत्वरूपतत्सम्बन्धवच प्रकृतेऽपि प्रमाणबलात् विषयत्वाख्यः सम्बन्धः दृशा दृश्यस्याभ्युपगन्तव्य इति नात्र निरसन- सम्भ्रमः प्रामाणिकानां युक्तः । प्रत्युत अध्यत्व सम्बन्धोऽत्यन्तम- प्रामाणिकः । अध्यस्तत्वं हि न जातिरखण्डोपः धिर्वा । पक्वत्वादिवत् योगिकशब्दार्थत्वात् । अध्यासा नाम आरोपः । तथा चारोपविषयत्वमेव अध्यस्तत्वमित्यनेनोक्तं भवति । नतु तदतिरिक्तं किञ्चित् । किञ्च दृश्दृश्य- सम्बन्धस्तावत् प्रतीयते । तत्र प्रतीतीनां स्वतः प्रामाण्यात् दृशमिव दृश्यमपि यथाप्रतिपन्नं सत्यं कृत्वा तयोः प्रतीयमानः सम्बन्धः किंरूप इति विचारे पूर्वप्रतिपन्न सत्यत्वाविरोधेन सम्बन्धस्वरूपं निश्चेतुं बुद्धिः प्रवर्तते । न तु तद्विरोधि । अतः स्वामिमतार्थसाधनौत्सुक्यातिरिक्तं न किमपि अध्यस्तत्वसम्बन्धोपक्षेपकमस्तीति बुद्धिमद्भिर्भाव्यम् । यत्तु "ज्ञानज्ञेययोरपि प्रतियोग्यभावादिसमकक्ष्य एव सम्बन्धी- ऽस्त्विति इममाक्षेपं समाधानेन परस्पराध्यासात्मकसम्बन्धासम्भवेनैव सम्बन्धान्तरकल्पनात् , तत्सम्भवे तस्यैव सम्बन्धत्वात्" इत्युक्तं तत् अद्वैत श्रद्धाजडान् स्वशिष्यान् प्रति वक्तुमुचितम् । न तु प्रौढान् प्राज्ञान् दृग्दृश्यसम्बन्धः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति