पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः दिकमध्यध्यस्य प्रकाशयेदित्यव्यवस्था परेणापादिता | विषयेन्द्रिय सन्निकर्षाधीनप्रत्यक्षात्मकवृत्त्यैव न विषयाध्यासः, ग्रेनोक्ताऽव्यवस्था प्रसज्येत | किन्तु तनः पूर्वमेव अध्यासेन सिद्धा घटादिः | तस्य यथा- स्थितस्य इन्द्रिय सन्निकर्पात्प्रत्यक्षं जायत इति क्वाव्यवस्थेति तत्परि- हार इति । 19 अथेमं परिहार विमृशेम । वृत्तः दुर्वासनमात्रेण आप! दिताया अनुपपत्तनैव परिहारः कृतो भवति । पूर्वमपि अभ्यास एव हि घटादेविषयस्य आध्यासिकत्वे च विषयस्य अव्यवस्था प्रसज्यते प्रातिभासिकस्थल इव । तत्र वृत्तेः प्राक्तनेऽप्यध्यासे तुल्य एव प्रसङ्गः । यत्र बटाध्वासः तत्रैव क्षणान्तरेषु पटाद्यध्यासः कुतो न भवति ? यथा रज्जो सर्पाध्यासः कदाचित् ततः कदाचित् भूदलनाध्यासः, ततः कदा- चित् अम्बुधाराध्यासः इति । पूर्वाध्याससिद्धो विषयः स्थिर इति चेन् आव्यःसिकस्य स्वरूपमेव तावदसिद्धम् | तस्य स्थैर्य कुतः । बगिंग्वी- थीस्वरूप्यशुक्तिरूप्ययोः मानान्तरसंवा विसंवादाभ्यां स्थैर्यास्थैर्ये अव गम्येते इति चेत् अत एवानध्यस्तत्वाध्यस्तत्वे अपि सिद्धयतः | दृश्य- सम्बन्ध नुपपत्त्यःदिसहकृतानुमानात् कल्पित सिद्धे प्रत्यभिज्ञावलात् स्थायित्व भवतीति चेत् दृढप्रत्यभिज्ञानुरोधेन स्थायित्वे सिद्धे कल्पित स्थायित्वस्य क्वचिदप्यदर्शनान अकल्पितत्वनिश्चयेन मिथ्यात्वानुमान- मेव आभासीक्रियत इति पश्यतु भवान् । दृग्दृश्यसम्बन्धानुपपत्तिश्च प्रागेव परिहृता । तथा च अद्वैताभिनिवेशेन तर्कानुगृहीतप्रमाणप्रमितं सर्वमन्यथा कर्तुमुयमः क्रियते, न तु ऋजुमार्गावलम्बनेन स्वतंकिमच स्थापयितुं शक्यत इत्यत्र इदमपरं निदर्शनं भवतीत्यास्तामेतन् । → ८४ एव सर्वस्य सर्वदा सर्वो विषयः स्यादिति प्रसङ्गोऽपि भवतो दुष्परिहर अवच्छेदकान्तःकरणतद्व त्यादि भेदेऽप्यवच्छेद्यस्य चैतन्य चैत्र- त्वात् | यथा एकस्य पुंसः शिरः पाणिपादाद्यवयवभेदेऽपि तत्तदवच्छेदेन