८६ विशिष्टाद्वैत सिद्धिः प्रथमः त्वोक्तौ च गतं लाघवेन | तादृशो विशेषोऽस्ति न तु स ज्ञात इत्यभ्युपगतं च भवति । यदुक्तं “कल्पित सामान्यविशेषवत्त्वं ब्रह्मण्यपि सुलभमेव | अकल्पित सामान्यविशेषवत्त्वं चाप्रसिद्धम । सत्यत्वानन्दत्वादिकमेव कल्पित व्यक्तिभेदेन सामान्यम् | परिपूर्णानन्दत्वादिन विशेषः । ” इति । अत्र ब्रूमः । अकल्पितसामान्यविशेषवत्त्वमप्रसिद्धमिति नेदानीं युक्तं वक्तुं भवतः । द्रव्यत्वादेः शुक्तित्वादेश्च सामान्यस्य विशेषस्य च कल्पितत्वा- सम्प्रतिपत्तेः । विश्वाध्यासोपपादकानां सामान्यविशेषधर्माणां कल्पतत्वं च न घटते । एषां कल्पनोपपत्तये पुनः सामान्यान्तरविशेषान्तरान्वेषण- प्रसङ्गात् । तदेभिर्धः सविशेषत्वमविष्ठानभूतस्य ब्रह्मणो दुनिवारम् | परिपूर्णानन्दुत्वादेः कल्पित अज्ञातत्वं च न घटते । कल्पनं हि नाम ज्ञानगोचरीकरणमेव । अज्ञातत्वकल्पनमेव नास्तीति स्यात् । i ननु परिपूर्णानन्दत्वं नाम स्वरूपमेव । न तद्तिरिक्तं किञ्चित् । तथा सत्यत्वादिकमपि । तस्मादेतैर्न सविशेषत्वमिति चेन्न । ज्ञाता- ज्ञातयोरेकत्वायोगान् | स्वरूपाने सत्येव हि परिपूर्णानन्दत्वं न ज्ञायते । ज्ञायमानानतिरित्तत्वं कथमज्ञायमानस्य स्यात् । स्याच्चेत् घटतद्रूपयोरपि स्यात् । तमसि स्पर्शनेन घटोपलम्भेऽपि अनुपलम्भेन हि घटातिरेको रूपस्याभ्युपगम्यते । तुल्यं तत् प्रकृतेऽपि । एवं सत्यत्वादेरपि प्रकारतया भानेन प्रकारिस्वरूपतो व्यतिरेकोऽव- श्यम्भावी | ज्ञायमानत्वेन परिदर्शनात । तेन “एक्स्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाशसम्भवान्” इति यदुच्यते तत धर्माणां धर्मिस्वरूपात् परस्परं च व्यतिरेकानङ्गीक तृतिरभि- धीयमानं रिक्तं वच इति ज्ञेयम् । निर्विशेषमेकं वस्तु केनचिद्रूपेण भानि, केनचिद्रूपेणं न भात`त्युक्तेहतत्वात् । धर्मत्वं कल्पितमिति चेत् दत्तो- त्तरमेतत् | धर्मत्वेन प्रकाशे सति हि कल्पितत्व वाच्यम् । अप्रकाशमा-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति