परिच्छेदः प्रतिकूलतकः ८७. नस्य किं कल्पनेनेति | यदपि भ्रमविरोधिज्ञानाभाव एव तन्त्रं, न टु विशेषाज्ञानमिति, नपि न युक्तम् । प्रतिबन्धकाभावमात्रस्य कार्यं प्रत्य- हेतुत्वान् । न हि शुक्तिमपश्यतां शुक्तित्वज्ञानाभावमात्रेण शुक्तिरूपभ्रमो भवति । तस्मात् भ्रमसामग्रयां निरूप्यमाणायां अवश्यं विशेषाज्ञानं तद्न्तर्गतं वाच्यमिति न सङ्कटान्मुक्तिः । किञ्च दोषमूलकाविद्याध्याससिद्धं स्यात् । यत्तु अनाद्यविद्याध्यासस्य दोपानपेऋत्यमिनि । तन्न । प्रतिज्ञामात्रेणार्थासिद्धेः । न हि लोके कश्चि- दध्यासो दोषाजन्यो दृष्टः येनात्र तथा सम्भावनाऽपि तावद् भवेत् । शुक्तिरूप्यदृष्टान्तेन चात्र भवान् विश्वमिथ्यात्वं साधर्यात । तस्मात् तद्वदेवाध्यासेन भवितव्यम् । तदध्यासरूपेण हडलिङ्गन अनाद्यविद्याध्या- समय आपद् दोषमूऋत्वं केन प्रमाणेन बाध्यते । सिति चेत् न हि सा अद्यापि निष्पन्ना | अभिलषिताद्वैतरक्षा प्रत्याशया प्रमाणं विनैव धाष्ट र्यादेव दोषानपेक्षत्वं प्रतिज्ञायत इति तु विदन्ति विद्वांसः । यच्च 'शत्ररस्वामिना, यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवा- समीचीनः प्रत्ययः, नान्यः : इति वदता दुष्टकारण जन्यत्वमन्तरेणापि अर्थान्यथःत्त्रप्रयोजकमप्रामाण्यमुक्तम्" इति तन्न । अप्रामाण्यज्ञापक- मात्रस्य एवं विभागात् । दोषस्चैव सर्वत्र प्रामाण्यजनकत्वस्येष्टत्वात् । तथा च तदीयमेवेतः प्राक्तनं भाध्यम् – “यदा हि क्षुदादिभिरुपहृतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौम्यादिभिर्वाह्यो वा विषयः, ततो मिथ्याज्ञानम्। अनुपहतेषु हि सम्बग् ज्ञानम् । इन्द्रियमनोऽर्थसन्निकर्षो हि सम्यग्ज्ञानस्य हेतुः । असति तस्मिन् मिथ्याज्ञानम् । तदुभयगतो दोषो मिथ्याज्ञानस्य हेतुः । दुष्टेषु हि ज्ञानं मिथ्या भवतीति” । इति । कञ्च अनर्थक्रियाकारि स्यात् । प्रापञ्चकं हि वस्तु सर्वमर्थक्रियाकार भवति। न च तद्ध्यस्तत्वे युज्यते । शुक्तिरूप्यस्य कार्यायोग्यत्वात् । | स्वानमायादौ व्यभिचारात् अर्थक्रियाकारित्वं न पारमार्थिक-. ८
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति