पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-८८ विशिष्टाद्वैत सिद्धिः प्रथमः सत्त्व प्रयोजकांमति । नैतदेवम् | स्वप्रादिपदार्थो वाऽत्र विवक्षितः तज्ज्ञानं वा । आद्ये असतस्तस्यकरित्वाभावान्न व्यभिचारः । तस्य परमार्थसत्त्वान्न व्यभिचार इति । ननु स्वाप्नेन असिना स्वाप्नस्य शत्रोः शिरश्चिद्यत इति चेत् कामं तथा । तथैव शुक्तिरजतमपि किञ्चित् कार्यमुखाइयतु पावा भरण वा अन्यद्वा । प्रातिभासिकं शुक्तिरजतं न कार्यकरणक्षममिति चेत् स्वाप्नंऽसिः किं व्यावहारिकः, येन कार्यक्षमो भवति । तस्य व्यावहारिकत्व को दोषः ? इति चेत् शुक्ति- रजतमपि व्यावहारिकमस्तु; को दोषः । ब्रह्मज्ञानव्यतिरिक्तशुक्तियाथार्थ्य- ज्ञानवाध्यत्वान् तस्य न व्यावहारिकत्वमिति चेत् समं तत् स्वाप्ने असा- वपि। प्रबोधे बाधात् । स कथमर्थक्रियाकारीति चेत् तन्निदर्शित वता भवता दुचादनीयम् । नास्माभिः । अथवा ब्रूमः, श्रूयताम् | यथा असिः तथा शत्रुः तस्य शिरश्छेदः तत्र असेः करणभावः, इति सर्व मिथ्या । सर्वं केवशं प्रानिभासिकम् । न तत्र कार्यं वा तत्कारित्वं वा प्रातिमासिकस्यास्ति । बाधस्य समानत्वात् । अतः परव्यामोहनायापि भवता स्वाप्नो व्यवहारो न दृष्टान्तीकर्तव्यः । आध्यालिकस्य स्वप्ने वा जागरे वा अर्थक्रयाकारित्वं नास्तीत्येतत् तत्त्वं न शक्यम होतुम | न तद्पह्नवे चापलं कर्तव्यम् । तथा च विश्वस्याध्यासिकत्वे दृश्यमानस्य अर्थक्रियाकारित्वस्थानुपपत्तिदु परिहारा | । किञ्च उत्पत्तिशून्यं स्यात् । लोके हि पदार्था उत्पद्यमाना दृश्यन्ते । यद्यनध्यस्तं कारणं कार्यं च तहि दृष्टा उत्पत्तिरियं उपपद्यते । आपणस्थ- रजतान् खलु कुण्डलमन्यद्वा उत्पद्यमानं दृश्यते । न तु शुकिरजताका तेन उत्पद्यमानं वत्तु स्वकारगमनध्यस्तं निश्चायति, स्वं च | नन्वव्यस्त ·त्वाविरोधि व्यावहारिकसत्त्वमेवानेन निश्चीयते न तु पारमार्थिकसत्त्व- मिति चेन्न । व्यावहारिकातिरिक्तपारमार्थिकसत्त्वे मानाभावस्याक्तत्वात् । प्रतिभासिकातिरिक्तस्यैव प्रमितस्य पारमार्थिकत्वात् । अतः उत्पत्तिश्रव-