परिच्छेदः प्रतिकूलतर्कः ८६ गात् अनध्यस्तमेव विश्वम् । ननु स्वानप्रपञ्चस्याप्युत्पत्तिः श्रूयत इति चेन्न | विकल्पासहत्वात् । किं स्वाप्नप्रपञ्चो नास्ति । तथाप्युद्यत इत्य- भिप्रायः । अथवाऽस्ति उत्पन्नश्चेति । आविनापि सामग्री घटा- छुत्पत्त्यापत्तिः । असत उत्पत्त्यभ्युपगमात् । अन्त्ये इष्टापत्तिः । यदुत्पत्ति- मत् तत् सदित्यव्यभिचारात् । “अथ स्थान रथयोगान् पथः सृजते” इत्यस्याः श्रुतेः कोऽर्थ इति चेत् कोऽत्र क्लेशः एषामसत्त्वपक्षे सृजते प्रतिभासविषयान् करोतीत्यर्थः । सत्त्वपक्षे तु तत्कालमात्रानुभाव्यान एतान् पदार्थान् सृजतीति यथाश्रुत एवार्थः । अयमेव च पक्षोऽस्म- I सम्मतः । किञ्च अनीश्वरसृष्टं स्यात् । ईश्वरसृष्टं हि जगदामनन्त 'इदं सर्वमसृजत' इति । न चेदमध्यासे उपपद्यते ! कल्पितस्यापि व्यावहारि कसत्त्वमादायोपपद्यत इति चेन्न | व्याघातात् । कल्पितं च व्यावहारिकं चेति व्याहतं ह्य तत् । व्यावहारिकमिति तात्त्विकस्यैवाभिधानात् । तद्- तिरिक्तस्य तात्त्विकस्वाभावात् । तस्य च कल्पितत्वायोगात् । एतेन ईश्वराध्याससिद्धत्वात् तत्सृष्टत्वोक्तिरिति परास्तम् । आध्या- सिकस्य व्यावहारिकत्वायोगात् । 'अध्यस्तस्यापि सर्पस्य भयकम्पादिजनकत्ववत् वाय्वादीनां तेजआदिजनकत्वमप्युपपन्नम्' इति यदुच्यते तदसत् । अतः सर्पस्य कारणत्वायोगेन तज्ज्ञानस्यैव भयादिजनकत्वस्योक्तत्वात् । अन्यथा दृष्टृत्वस्यापि कदाचित् प्रसङ्गात् । चायवादीनां तु तेजआद्य पादानभूतानां स्वरूपेणैवोपयोगेन कल्पितत्वा- नुपपत्तेः । यत्तु " मध्यन्दिने भूयिष्ठप्रकाशाद् बहिर्देशत् सालोकमपवरकं प्रविष्टस्य तमःप्रतीतिर्भवति, तत्रत्यानां घटादीनामप्रतीतिश्च । तत्र कल्पितस्य तमसो वस्त्वाच्छादकत्वं दृश्यते” इति तन्न । तत्र तमो- भ्रमस्य यो हेतुः तत एव तत्रत्यवस्तुप्रतीतिविरहोपपत्तेस्तदाच्छादकान- to
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति