परिच्छेदः अद्वै तश्रुतिः ६१ एव । तस्य श्रुतं सत्यत्वं कथं योजयमित चेत् जगतो यथा तथैव । द्वितीयत्वं मिथ्यात्वप्रयोजकम् । तद् ब्रह्मणि नास्ति । तत्कथं तस्य मिथ्यात्वं भवेदिति चेटुक्तमेतत् । द्वितीयान्तर्गतम्य प्रमाणभूतस्य वैद्स्य मिथ्यात्वे तत्वमेयस्य सतोऽपि मिथ्यात्वमापततीति । तथा च कल्पितसत्त्ववदेकमासःदिति श्रुत्यर्थो वाच्यः | सत्यत्वं ब्रह्मस्वरूपमेव | तो न तस्य कल्पितत्वमिति चेत् त सत्यत्वं ब्रह्मेति स्यात् । न तु सत्यं ब्रह्मेति । धर्मत्वं कल्पितमिति चेत् तर्हि' जगदप ब्रह्मस्वरूपमेव | सर्वं खल्विदं ब्रह्मति श्रवणात् । अतो न तत् कल्पितम् । भेदमात्रं कल्पि- तम् । तदेव निषिध्यत इति स्यात् । तस्मात् त्यज वा ब्रह्मसत्यत्वं भज वा विश्वसत्यताम् । ब्रह्म सत्यं जगन्मिथ्येत्येषा ते दुर्लभ स्थितिः || अनुमन्येत मिथ्यात्वमात्मनंपियदि श्रुतिः । परिशेषयितुं ब्रह्म शक्येत न कथश्वन || २४. श्रदूँ तश्रुतिः , परीक्षितप्रतिष्ठितप्रामाण्यस्य घटपटा दिद्वैतप्रत्यक्षस्य सम्भवद प्रामा- ण्यचन्द्रप्रादेशिऋत्वप्रत्यक्षतुल्यत्वं न भवतीति तेन तस्याद्वैत श्रुतिविरो- धित्वं भवतीति च पूर्वमेवोक्तम् । विरोधे प्रत्यक्षं प्रबलम् । अतः तद्विरो- धेनैव श्रुत्यर्थो वाच्य इति च । अन्यथा वेद मिथ्यात्वात् तद् द्या मिथ्या- चमण्यापतेदिति च ब्रह्मणो वा तत्सत्यत्वस्य वा जगद्वदेव हि अध्यस्तत्वं दहार्यमापतति । न हि वक्तुर्वाक्यमन्यथा गृहीनवतः श्रोतुः मिथ्या- भूततद्वाक्यबोध्यस्वार्थस्य प्रमाणान्तरेण संवादो भवति । यदि कदाचिद् भवति स यादृच्छिकः, प्रमाणान्तरावसेयः । औसर्गिक विसंवाद एव । न च ब्रह्मणः सत्यत्वे संवादि प्रमाणान्तरं सुवचम् । अतो मिथ्या- वाक्यजन्यमिथ्याज्ञान विषयत्वात् मिथ्यात्वं दुर्वारम् ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति