६२ विशिष्टाद्वैतसिद्धिः प्रथमः तथा च अथ यदुच्यते “प्रत्यक्षं नियतविषयं श्रुतिः सर्वविषया । यत्र प्रत्यक्षेण भेदो न गृहीतः तत्रैवाभेदद्भुतंरवकाशः ।” इत्यादि खण्डनकारोक्तमनुवदता, तत् सर्वमत्यन्तमहृद्यम् । तथा ् ि। यथा कञ्चिदनवतं विपक्षं प्रबला पाहि सेना काचित् झटिव्यासकन्द्या वरुण्य तदीयां विभूतिं सर्वामात्मसात्कुर्वीत तथा ऋगृहीतस्त्रभेदा काचन ध र्यदा भासते तदा लब्धावकाशा अद्वैश्रुतिः प्रत्यक्षत्राध्यत्वे- नामिमतायाः स्त्रोत्सवाया ऐक्यचियः तथा सह ऐक्यं बोधयित्व निर्वाधा सती सर्वाभेदे पर्यवस्तीत्युच्यते । तत्र वक्तव्यम् । यद्यपि काचन घटपट।दिधं': स्यभेदाविषया तथापि अद्वैतश्रुतिः स्वोद्याया ऐक्यधियः तया सह्रैक्यबोधनाय अवकाशं कथं लभेत । परस्वरं विनयभेदात् । घटविपया ह्यंका धीः । भेदाभावविषया चान्या । तत एव तयोरपि भेदात् | "अर्थेनैव विशेषा हि निराकारतयः विवाम् ।" तथा च भेदत्वेन स्वभेदविषयत्वाभावेऽपि स्वविष रूस्त्रभेदग्राहिण्येव सर्चा धीरिति धियोरभेदो न शक्यो बोद्धुम ५ ननु अद्वैतश्रुतिः धियारभेदं बोधयित्वा तद्विषययोरप्यैक्यं बोधय- तीनि चेत् विषयभेददार्थात् तत्राभेदबांधनाशक्ता तत एव धियोरपि तद्द्बोधने अप्रभव त । सा क्रुद्धा कृत्येव स्वत्थापकं तमेव हन्तीति
पश्यतु भवान्। अभेद्वादेऽपि हि सुखदुःखवन्धमोक्षादेर्व्यावहारिको भेदोऽवर्जनीच भवति । न च प्रकृतिप्रत्ययभेदं पदभेदं, तत्तदर्थंभेदं, स्वयमुपदेष्ट्री सती उपदेष्टव्यपुरुषभेदं च सिद्धवत्कृत्य वर्तमाना श्रद्ध सर्वभेद निषेधे क्षमते । अतः परीक्षितप्रामाण्यत्वात् प्राथम्यात् अपरोक्षस्वात् । उपजीव्यात् अत्यन्तं वाधितुमशक्यत्वाच्च प्रत्यक्षस्य तदविरोध्येवार्थः श्रुतेर्वाच्यः । यत्तु 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि' । इति, तत्तथैत्र । ‘अङ्गुल्यग्रे करिवरशतम्' इत्यादेरपि बोधकत्वात् । यत्पुनः 'अबाधात्तु प्रमामत्र स्वतः प्रामाण्य निश्चलाम्' इति तन्नास्ति । प्रबल-