विशिष्टाद्वैतसिद्धिः प्रथमः (1 ईदृशस्वरूपस्वभाव इति न जानामीत्येतदर्थकम् । 'अथ धर्मः प्रतिपोवा स्यात् प्रतिवेत्यादि धर्मजिज्ञासाविकरभाष्यम- हानुसन्धेयम् । । । नन्वेवं ज्ञानविशेषप्रतिषेवस्थले उपपत्तावपि मयि ज्ञानं नास्तीति ज्ञानसामान्यनिषेधस्थले किं वक्तव्यमिति चेत्, कदाऽयं निषेत्रः ? किं जागरे अथ वा सुषुप्तौ ? आद्ये यत्किञ्चिज्ज्ञानावश्यम्भावान् नायं निषेधः सम्भवी | अन्त्ये नतराम् | प्रतीतिसामान्यस्य तदानीमुपरमे निपेव- प्रत्ययासम्भवात् । कथं तर्हि मयि ज्ञानं नास्तांति प्रतीतिरुपपादनीयेति चेत् यदीयं ज्ञानसामान्चविषयात भ्रान्तानामेव । विवेकिनां तु यथो- चितं तत्तद्विषयज्ञानविशेषावलम्बिनीति । एतेन त्वदुक्तमर्थं न जानामीति विशेषप्रत्यक्षमपि व्याख्यातम् । वक्ता वाक्यप्रयोगात स कञ्चिदर्थं वदतीति, स्वमुद्दिश्य प्रयोगात् स्वस्य तज्ज्ञानजननं तेनोद्दिष्टमिति च जानन् श्रोता, वक्तृदोषाद्वा वाक्यदोषाद्वा स्वबुद्धिमान्द्यावा तमर्थम- जानन् तं प्रति 'त्वदुक्तमर्थं न जानामि' इति त्रवीति । अत्रको व्याघातो नाम ? अज्ञानवादस्त्वत्रानुपपन्नः । तथा हि । एवंवादिनः त्वदुक्तवाक्य- गापेक्षा अस्ति न वा । आद्येऽपि दृष्टविधया वा अदृष्टविधया वा । न तावद्दृष्टविधया | प्रमाणाभावात् । यदि दृष्टविधया तन् किमर्थज्ञान- जननार्थं अन्यथा वा | ज्ञानजातत्वेन तद्ज्ञान विनाशात् न जानामीति तदनुभवो दुर्बचः | अन्त्ये कथमिति वाच्यम् । तत्तु दुर्वचम् । अपेक्षा नास्तीति द्वितीयपक्षे यो दूरस्थः कश्चित् यो वा सन्निहितोऽन्व- बधिरः तस्याभि त्वदुक्तमर्थं न जानामीति प्रतीतिः स्यादिति । अथ "एतावन्तं कालं न किञ्चिदमिति परामर्शसिद्धं सौषुप्तं प्रत्यक्षभपि भावरूपाज्ञानविषयमेव” इति यदुच्यते तदपि न युत्तम् । यो हि प्रातर्गजं न दृष्टवान् सः 'किं प्रातगंजमद्राक्षी: ' इति पृष्टः नाहं दृष्ट्वानिति प्रत्येति वदति च । अयमस्य सायङ्कालीनः प्रत्ययः प्रातरदर्शन - १०६
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति