परिच्छेदः अज्ञानप्रत्यक्षम् १०७ मात्रं साधयति, न तु अदर्शनप्रत्यक्षम् । न हि सः प्रातःकाले गजादर्शनं मेऽस्तीति प्रतीतवान् । एवमेव प्रकृते न किञ्चिद्वेदिषमिति सुषुनि- 'कालीनमवेदनं प्रबुद्धोऽनुसन्धत्ते । न तु ततोऽधिकं किमपि । अतः अनेन परामर्शेन सौषुप्ने प्रत्यक्ष एवासिद्धे कुतस्तस्य भावरूपाज्ञान विपयत्वम् | ननु सुषुप हमर्थतया विवक्षितं अज्ञानवृत्तिप्रतिबिम्बितं चैतन्यं स्वानुभवशीलं भवति । तदेव स्वावच्छेद काज्ञानप्रत्यक्षम् । तस्य च मत परामृश्यमानत्वान् सौषुप्तं प्रत्यक्षं परामर्शसिद्धमेति चेन्न । अहमर्थो यः कोऽपि भवतु | तदनुभवोऽपि यः कश्चिदास्ताम् । परामर्शे 'न किञ्चिदवेदिप' मिव्ययमंशः किरूप इति विचारः सम्प्रति क्रियते । अवेदनमात्रमिह विषयः नत्ववेदनप्रत्यक्षमित्येतत् स्पष्टमेव । न च धर्म्येव अदनप्रत्यक्षं भवतीति वाच्यम् | भवतु वा मा वा । अत्यन्तम- श्रसविचारान्तरमेतत् | अहमवेदिषमित्युक्ते अमर्थस्य वेदनाश्रयत्वं प्रतीयते । नञा योगे तत्प्रतिषेधः प्रतःयते । न किञ्चिदिति विषयनिर्दे- शाच प्रबोधले यदुनं भवति तस्य व्यतिरेकानुसन्धानमात्रे तात्पर्य मिति गम्यते । तेनानेन परामर्शेन सुषुप्तिकाले वेदप्रत्यक्षसिद्ध्यमि धानमनुपपन्नम् । परामृश्यमानमवेदनं च वेदनाभावरू मेव न भावरूपं निञ्चित् | क्लृप्तेनैव प्रतीत्युपपतौ पूर्व कस्यचित् कल्पनायोगात् । अभावो हि भवताऽप्यङ्गीक्रियते । ज्ञानमभूदिति प्रध्वंसाभावः | नास्तीत्य- त्यन्ताभावः | भविष्यतीति प्रागभाव इति । न चात्र "उलत्तिभविष्यत्ता- 19 मुच्यते । न प्रागभावः । अन्यथा दिनान्तरोत्पत्स्यमानघटे एतद्दिन- वृांतेप्रागभावप्रतियोगित्वेन, अद्य घटो भविष्यतीति धीप्रसङ्ग” इति वाच्यम् | क्रिमद्य घटोस्तीति प्रश्ने अनास्तीति तत्पर्येणैव भविष्य- तीत्युत्तरदानेन तस्याभावविषयकत्वावश्यम्भावान् | चामावस्य घटोत्पादकसामग्रीसमवधानव्यङ्गयत्वात् कालान्तरोत्प स्वमानघटप्राग- भावस्याद्य विद्यमानत्वेऽपि अद्य घटो भविष्यतीति न व्यवहार इति न
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति