विशिष्टाद्वैतसिद्धिः प्रथमः देतत् । किमिदानीमत्र घटं पश्यसीति पृष्टः न पश्यामीत्याह । किमत्र पक्षिरुतं शृणोषोति पृटः न शृणोमित्याह । दर्शनस्य श्रवणस्य चाभाव एव ह्यत्राभिप्रेतः । न तु भावरूपमदर्शनं वा अश्रवणं वा । प्रतीत्यननुरूपत्वात् । एवमेव प्रकृतेऽपि । सौषुप्रस्य अनुभवस्य तन्मात्रविषयत्वमेव | न तु प्रकारतया विषयान्तरग्राहकत्वं सम्भवतीति व ज्ञेयम् । अत्र एव 'एतावन्तं कालं न किश्चिदवेदपम्' इतीदं न स्मरणम् । अवेदनस्य पूर्वमन्नुभूतत्वात् । अपितु अर्थापत्या अनुमानेन वा ज.तः परोक्षानुभवः । ज्ञानं जातमभविष्यच्चेत् अय अस्मरिष्यत । न च स्मर्यंत | तस्मान्नासीदिति । १०८ अत्राह । “नैवमनुमानं सम्भवति | नियमेनास्मर्यमाणत्वहेतुना पूर्व- कालिकज्ञानाभावसाधने तदा उपेक्षणीयज्ञानाभावःसिद्धेः । न चायम- भावो न सिषाधयिषित इति वाच्चम् | तथा सति तस्मिन् अस्मर्यमाण- त्वरूपहेतोः सत्त्वेन पूर्वकाले अभावरूपाध्यभ्यासत्त्वेन च हेतोः सव्य- भिचारत्वः पत्तेः । अतो न किञ्चिद्वेदिषमिति भावरूपाज्ञानपरामर्श एवेत्यभ्युपगम्य तेनैव ज्ञानाभावानुमानं वाच्यम् । सर्वत्रज्ञानस्य ज्ञाना- भावव्याप्यत्वा" - दिति । तदिदं न युक्तम् । उपेक्षणीयज्ञानाभावस्य अनेनैव परामर्शेन साधनीयत्वे निर्बन्धविग्हात्। 'अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद' 'विनाशमेवापीतो भवति' इत्यादिभिस्तद्- चगमान् । अवश्यं स्मर्तव्यस्य नियमेनास्मर्यमारणत्वमेव हेतुरिति तस्य उपेक्षणीयज्ञाने विरहाद् व्यभिचारांऽपि नास्ति । यत्तु इदमनुमानं प्रदू भावरूपाज्ञानेन ज्ञानाभावानुमानमास्त्रीयते तत् सारसक्रेङ्कारादि दुकानुमानं प्रतिषिध्य मृगतृष्णकोदकेन उदकान्तरानुमानप्रयासतुल्यम् । सयभचारश्चाज्ञानहेतुः । ज्ञातविस्मृते ह्यज्ञानं भवत्येव । न च तेन पूर्वकाले ज्ञानाभावः सिद्धयति । तदेवं भावरूपाज्ञाने प्रत्यक्षं तावन्नास्ति ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति