११० विशिष्टाद्वैतसिद्धिः प्रथमः तुल्यत्वान् | तदितराद्वारकत्वस्य इन्द्रिय सन्निकर्षेऽपि सत्त्वात् | तमोनि- रसनद्वारऋत्त्रेन प्रदीपप्रभायां सिद्धेश्च । तस्मादिदमनुमानं नालं भाव- रूपाज्ञानसाधनाय | नापि तत्त्वप्रदीपिकोक्त मनुमानम् । तथा हि । “चैत्रप्रमा चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिर्वातिका, प्रमात्वान्, मैत्रप्रमावत्" इत्यस्मिन् तावद् विदुषामत्यन्तमुपहास्ये प्रयोगे चैत्रगतप्रमाप्रागभावातिरिक्तप्रागभावनिवर्तकत्वमुपाधिः । मैत्रप्र- मायां चैत्रसुखादौ च तत्तत्प्रागभावनिवर्तकत्वात् साध्यव्यापकत्वमविह- तम् | पक्षे च तत्प्रागभावातिरिक्त प्रागभावनिवतंकत्वाभावात् साधनाव्या- पकत्वम् | चैत्रप्रमा स्वप्रागभावातिरिक्तानादिनिवर्तिका न, प्रमात्वात् मैत्रप्रमावत्, इति सत्प्रतिपक्षश्च | नचात्र प्रतियोग्यप्रतिद्धादिदोषाव- काशः । न च चैत्रगतप्रमाप्रागभावातिरिक्तस्य स्वजन्यव्यवहारप्रागभा- वस्य निवर्तऋतथा पक्षे साधनव्यापकत्वमेवास्तीति वाच्यम् । सिद्धसाध, नस्यैव तदानुमानदूषणत्वान् । व्यवहारप्रागभावस्य व्यवहार एव निव- र्तकः न प्रमेति कृत्वा व्यापकत्व निधानात् । विमतः कूपः स्वगतज- लातिरिक्तं अनुष्णाशीतेतरस्पर्शवत्र यद् द्रव्यं तद्वान् कूपत्वातू, कूपा- न्तरवत् इति कूपे वह्नयनुमानतुल्यं चेदमनुमानम् | कूपस्य महिमाति- शयसिद्धयादि च विपक्षे बाधकमत्रापि सुवचम् । “विगीतो विभ्रमः एतज्जनकात्राध्य.तिरिक्तोपादानकः, विभ्रमत्वात् सम्मतवत्,” .इतीदं द्वितीय मध्यनुमानं पूर्ववदेव दुष्टम् | स्ववैयधिकरण्यस्यापाधित्वात् । विगीतो विभ्रमः स्वजनकाबाध्यातिरिक्तोपादानको न, विभ्रमत्वात् सम्म- तवत्, इति सत्प्रतिपक्षश्चेति | साध्याभाववतैव दृष्टान्तेन साध्यसाध द्यतैनूंनमःत्मनः प्रयोगकौशले वा श्रोतृणां मौढचे वा दृढप्रत्ययर्भूयते । एवं दुर्विनियोगेन शास्त्रज्ञानस्य लभ्यते । प्राज्ञोपहास्यतापात्रीभवनं केवलं फलम् || , यानि तादृशान्येव नव्यान: मनुमानानि तेषु विमता प्रमा प्रमा-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति