पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः श्रज्ञाने श्रुतिः ११३ तुच्छयोर्निषेधेन व्यवहारिकसत्त्वमुच्यते इति यन् तन्न । प्रलयदशा- वर्णनं ह्येतत् । न च तदा व्यावहारिकं किञ्चिदस्ति । यद्यप्यस्ति, तदाऽपि सृष्टिकालेऽपि सत्त्वान् तदानोमासीदित्येतन्नोपपद्यते । एतेन अनिर्वचनीयमत्रोच्यते इत्यपि निरस्तं ज्ञेयम् । तस्यानि सृष्टिकालेऽपि सत्त्वात् । अतोऽत्र ‘अनादिमत्परं ब्रह्म न सत्तन्ना सदुच्यते' इत्यत्रेवार्था- न्तरमेव वक्तव्यम् । तच्चोक्तमाचार्य गर्दैः– “अचित्समष्टौ चिचिद्वय- ष्टिलयोऽत्रोच्यते — इति । 'अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः इत्यादिषु मायाशब्दोऽपि नाज्ञानवाची | तु विचित्रार्थसृष्टिकर- वाची । एवम्भूता प्रकृतिरिति सँव माया । आह च भगवान् 'दैवी ह्येषा गुणमयी मम माया दुरत्यया' इति । ऐन्द्रजालिकादावपि विचित्रार्थ - सनिभानोवादकत्वादेव मायाशब्दप्रयोगः | अज्ञानवाचित् सर्वेश्वरस्य मायिनः अज्ञत्वमनिवार्यम् । यत्तु उपाधेः प्रतिबिम्बपक्षपातित्वेन नेश्वरा- सार्वइय'व्यापत्तिरिति, सेयमपरा दुष्कल्पनापरम्परा । न हि शुद्धचैतन्ये, भावरूनाज्ञाने, तस्यास्मिन् प्रतिबिम्बने, एतत्कृते जीवेश्वरभेदे. जगदु- पत्तौ वा प्रमाणलेशो वा उपपत्तिर्वा विद्यते । भावरूपमज्ञानं सर्वथा अप्रामाणिमिनि निरूपितं निरूप्यते च । उपपत्तिशून्यं च तत् । यदि भावरूपं, केवलज्ञानमात्रात्तस्य निवृत्तिर्न भवेत्, काप्यदर्शनात् । न हि घटपटादिकं वस्तु क्वचित् ज्ञानेन नश्यद् दृष्टम् | रज्जुसर्पादिकं दृष्टमिति चेन्न । न हि रज्जुसर्पो नाम कञ्चन भावोऽस्ति, यो ज्ञानेन निवर्तते । प्रमाणज्ञानेन पूर्वज्ञाने अप्रामाण्यमात्रज्ञापनात् । यदि च शुक्तिरूप्य- तुल्यमिदं भावरूपमज्ञानं तहि जगदुपादानं न स्यात् । यथा शुक्तिरूप्यं न द्रव्यान्तरोपादानं भवति । शुक्तिरूप्यादिवत् ज्ञाननिवर्त्य च जगदु- पादान चेति दुर्घटम् । शुद्धचैतन्यस्य अस्मिन् प्रतिबिम्बनं चानुपपन्नम् | नीरूपत्वात् । न