परिच्छेदः अज्ञाने अर्थापत्तिः ११५ येन गाढसंसर्गेण स्वस्मिन्नेव आत्मबुद्धिमुत्पाद्य जीवविषयकमा शविषयकं च ज्ञानं आभासं अयथार्थं करोति तस्मात् अज्ञानहेतुत्वात् अविद्येति व्यवहारो युक्त इति । विहेतुत्वादविद्येयुक्तं भवति । यथा गीतासु अमानित्वमदम्भिवमित्यारभ्य गुणान् पठित्वा एतज्ज्ञानमिति प्रोक्तम- ज्ञानं यदनोऽन्यथा' इति ज्ञानहेतुत्वात् तेषु ज्ञानत्वोक्तिः अन्येषु अज्ञान- त्वोक्तिश्च तथाऽत्र द्रष्टव्यम् । शरीरन्द्रियादिरूपेण प्रकृतिसंसर्गो ह्यस्माकं सर्वानर्थहेतुः । अतस्तद्धानाय तस्या अविद्या हेतुतयाऽविद्या त्वरूपणं क्रियते । न त्वज्ञानस्वरूपत्वमुच्यत इति विभावनीयम् । 'महाभूतान्य- हङ्कारा वुद्धिरव्यक्तमेव च ' इत्युपक्रम्य हि 'इति क्षेत्रं समासेन सविकार- मुदाहृतम् ।' इति गीयते तत्र 'स्वाव्यतिरिक्तानि क्षेत्राणि' इत्यु- तथा सैवाभिप्रेतेति स्पष्टम् । नोहारतमःशब्दावांप जीवस्वरूपतिरोधा- नहेतुत्वेन तत्त्वज्ञान प्रतिबन्धकत्वात् यथाई प्रकृतौ वा कर्मणि वा अन्यत्र वा औपचारिकौ द्रष्टव्यौ । न तु भाव ज्ञानवाचिनौ । लोके शास्त्रे वा व्युत्पत्त्यभावात् । कल्पने प्रमाणाभावाञ्चेत्यलमधिकेन । । I ३२. अर्थापत्तिः पत्ति दर्शयता उक्तम् – “जीवस्थानावच्छिन्नब्रह्मानन्दा- प्रकाशानुपपत्तिश्च तत्र मानम् ।" इति तदपि न हृद्यम् । कर्मतिरोहित- स्वरूपत्वादेव तद्प्रकाशात् । उपपादकान्तरानपेक्षरणात् । कर्म हि सर्वा- भ्युपगतम् । तनैवानुपपत्तिपरिहारे अर्थान्तरकल्पनाया नास्त्यवकारः। तू पुनः "भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम्" इत्यर्थापत्त्यन्तरमुक्तं तदुपहास्यम् । अद्वैनसिद्धान्तान्यथानुपपत्तिरपि तत्र प्रमाणम्' इति यावदुक्तं भवति, तावदेव ह्यनेनापि । परेषां हि आत्मा ज्ञाता | ज्ञानं तस्य धर्मः । तद् द्विविधं यथार्थं चायथार्थं च । तत्र यथार्थं प्रमेत्युच्यते, अयथार्थं भ्रम इति । उभयविवस्यापि ज्ञानत्वात् i
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति