पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ विशिष्टाद्वैत सिद्धिः भावात् । तथा हि । अहमज्ञ इति स्वानुभवस्य सर्ववस्त्वज्ञानविषयत्वा- सम्भवः पूर्वमेवोत्तः । तस्मान्मृत्लाज्ञानात्रयःवचार अप्रत्ययेन न शक्यम् । तद्विपयत्वं कृत्वाऽपि तु ब्रूमः | अहमर्थस्यात्र अज्ञानाश्रयत्वं प्रतीयते । न तु शुद्धचैतन्यस्य | यत्तु अहङ्कारस्याविद्य वीनत्वेन तद्ना- श्रयतया चित एवाज्ञानाश्रयत्वमिति तत्रेदं वाच्यम् । किमयं अहह्मज्ञ इति प्रत्ययः अद्वैतप्रक्रियया विषयनिरूपणाय उत्तः अथवा अज्ञान- तदाश्रयसिद्धौ प्रमाणतया | आद्ये तस्य प्रमाणत्वोपन्यासविरोधः । प्रथमः विकल्पितत्वेनाज्ञानानाश्रयत्वाभिधानं न युक्तम | यथाप्रतीति विषयस्य ग्राह्यत्वात् । अतो ह्यहमर्थः प्रतीयते । अहमिदं जानामि, इदं न जानामीति । तस्यैव ज्ञानाज्ञाने उभे तमतिलङ्घय साक्षिग्रहणमपि न युज्यते । किमुत तदप्यतिलङ्घय शुद्धचैतन्य- ग्रहणम । अतोऽविद्यायाः शुद्धचिदाश्रयत्वे अहमज्ञ इति प्रत्ययो न प्रमाणम् । नापि 'मायान्तु प्रकृतिं विद्यान्सायनं तु महेश्वरम्' इतीयं श्रुतिः । मायां प्रकृतिं त्रिगुणात्मकं प्रधानं जानीयात् । मायाशब्दवाच्या प्रकृति- रिति यावत् । मायिनं च महेश्वरं विद्यात् । स्वामितया नियन्तृतया च तद्वन्तं सर्वकारणं सर्वेश्वरं जानीयात् । यो महानीश्वरः ईश्वराणामपी- श्वरः सर्वज्ञः सर्वशक्तः सर्वाधिपतिः तदीया सा प्रकृति : या मायाशब्द- चाच्येति ह्ययं मन्त्र आ| यो महेश्वरः तं मायिनं विद्यादिति महेश्व- रस्य सतः मायास्वामित्वमुच्यते । एवं सति शुद्धचैतन्यस्य मिथ्याभूत- भावरूपाज्ञानाश्रयत्वे सचेताः कोन्विदं प्रमाणयेत् । 'ज्ञाज्ञौ' इति सुस्प- ष्टार्थां श्रुतिमपण्याख्यानेन कदर्थयन् कथं ग्राह्यवान् भवेत् । एवं प्रमाणं तावन्नास्ति । न चोपपत्तिः । आश्रयपदार्थानिरूपणात् । किं भूतलमिव घटम्य, घट इव तद्रूपस्य, वृक्ष इव फलस्य, सूर्यादवि प्रमाया चैतन्यमज्ञानस्याश्रयः । न कथमपि । निस्सङ्गत्वात् तस्य ।