परिच्छेदः चिन्मात्राश्रयत्वम् १९६ सङ्गित्वे शुद्धत्वहानेः । ननु शुक्तिरिव शुक्तिरूप्यस्य शुद्धमविद्याया आश्रय इति चेन्न । अभ्यासासम्भवात् । न हि तद्ध्यस्यति | शुद्धत्त्वात् । न चाविद्या स्वात्मानं तस्मिन्नध्यस्यति | जडत्वात् । न चान्यः कश्चिदृध्य- सिताऽस्ति । ज्ञातृत्वाभावादपि न शुद्धज्ञानाश्रयत्वम् । ज्ञातुरेव ह्यज्ञानम् । न हि घटोऽज्ञ इति व्यवहरन्ति । नन्वविद्यावच्छिन्नचैतन्यस्य ज्ञातृत्व- सत्त्वात् नोक्तानुपपत्तिरिति चेन्न | शुद्धस्य तद्भावेन दोषतावस्थ्यात् । यस्याज्ञानं तस्य हि ज्ञानं वाच्यम् | वैयधिकरण्यायोगात्। अविद्या- श्रयत्वं शुद्धस्य, ज्ञानाश्रयत्वमवच्छन्नस्येति । अवच्छिन्नस्यापि ज्ञातृत्वं दुवचमिति पूर्वमेवोक्तम् । तत्र नीरूपस्य ब्रह्मणः प्रतिफलनं तावन्नास्ति | यत्तु रूपवत एव प्रतिबिम्ब इति व्याप्तेः रूपादौ व्यभिचाराद्भङ्गः, इति, तन्न | तादात्म्यसमवायान्यतरसम्बन्धेन रूपवत एव प्रतिबिम्ब इत्येवं रूपत्वात् व्याप्तेः । स्वाश्रयस्य चाक्षुषत्वं तिफलनयोग्यत्वं च आपा- दयतो रूपस्य स्वस्य तथात्वे इतरानपेक्षत्वात् । न चाकाशे व्यभिचारः । बिम्वे रूपग्रहणादेव तत्र प्रतिफलनप्रतीतेः । दूरस्थनीलनभस एव हि प्रतिविम्बदर्शनम् । न तु सन्निहितनीरूपनभसः । एवं लोहिततया स्फटिकचिम्बदर्शनादेव तथाविवप्रतिनिदर्शननिति ज्ञेयम् । तस्माद्रूप- वत एव. चाक्षुषस्यैव, प्रतिबिम्ब इतीदं स्थितम् । प्रतिध्वनिरस्तीति चेत् काममस्ति । प्रतिब्रह्मापि तथा प्रतीतं चेदभ्यु- पगम्येतैव । 'रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचरः' इति तर्काप्रतिष्ठान - सूत्रस्थं भवद्भाष्यं च भवताऽवधेयम् । न च श्रुतिवलाश्रिता प्रतिबिम्ब- यसैद्धिः । तद्बोधकश्रुत्यभावात् । 'रूपं रूपं प्रतिरूपो वभूव' इत्यस्य स्वसृष्टं तत्तद्रूपं प्रविश्य तत्तदाकारो वर्तत इत्यर्थः । 'एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इति स्मृतिवाक्ये स्वयमेक एव सन् तत्तद्वस्त्वात्मना बहुधा दृश्यते । तत्र तत्र स्थितोऽपि जलचन्द्रवत् दोषा- संसृष्टो दृश्यत इति विकारासम्बन्धे दृष्टान्ततया जलचन्द्रग्रहणात्
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति