१२० विशिष्टाद्वैतङ्क्षिद्धिः प्रतिबिन्बप्रसङ्गो नास्ति । एवं सर्वत्र द्रष्टव्यम् | अनुप्रवेशार्थापत्तिरपि नास्ति | स्वरूपत एव मुख्यतयाऽनुप्रवेशोक्कि- सम्भवत् । “आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथाऽऽत्मैको ह्यनेकस्थो जन्दाधारविवांशुमान् " इति वस्तुसदाकाशदृष्टान्त।नन्तरं जलसूर्यदृष्टान्तप्रदर्शनेन हि वस्तुतः तत्र तत्र स्थितस्यापि असत व दोषसंस्नर्शो नास्तीति ज्ञापने तात्पर्य गम्यते । आह च सूत्रकारः वदेव हि तत्प्रधानत्वात्' इति वस्तुता रूपवदेव, अथाप्यरूपतुल्यमिति । - प्रथमः प्रतिबिम्बाभ्युपगमेऽपि ज्ञातृत्वं नः सम्भवतीति च पूर्वमेवोक्तम् । अविद्यावृत्तौ यदि शुद्धं प्रतिफलति तावता ज्ञानस्य वा ज्ञःतृत्वस्य कथं निष्पत्तिः ? प्रतिफलितमपि हि चैतन्यं निर्विकारमेव । अविद्यावृत्तिर- विद्यायां वर्तते । तत्र का प्रतीतिः कस्य वा ? अवच्छ चैतन्यमेव प्रतीतिरितिचेत् प्रतीत्याश्रयः कः ? सोऽपि तदेव चैतन्यमिति चेत् कथं स्वस्य स्वाश्रयत्वम् ? कल्पितमिति चेत् कः कल्पकः ? चैतन्यमिति चेत् तस्य निर्विकारत्वं स्मर | अविद्येति चेत् तस्या जडत्वं स्मर | मिलित- मिति चेत् इदममिलितादतिरिक्तं वा न वा ? आद्ये चैतन्यं परिणामि स्यात् । अन्त्ये अनुपपत्तिरपरिहृता । तस्माद् ज्ञातृत्वं दुवचम् । एवं च ज्ञातुरभावादनि प्रतिफलनं नास्तीति सिद्धयति । दृष्टिसृष्टिमात्रं हि प्रतिफलनम् | द्रष्टुरभावे कुतस्तन् । तदेवं कथमपि चैतन्यस्य ज्ञातृत्वाभावात् अज्ञानाश्रयत्वं नोपप- द्यते । अथापि पुनरध्यभ्युपगमवादेन ब्रूमः । ज्ञातृत्वाध्यासः कामं सिद्धयतु । तेन तु प्रकृताक्षेपसमाधानं न भवति । एव i हि कल्पितमिदं ज्ञातृत्वम् । ईदृशं चेदं अविद्याश्रयत्वान्तभूतमेव । ज्ञातुरेव ज्ञानाश्रयत्वसम्भत्रान् अज्ञातुः शुद्धचैतन्यस्य तदाश्रयत्वमनुप- पन्नमिति प्रत्यवतिष्ठमानानां तु अविद्यानधोनमेव ज्ञात्वमभिसंहितम् । तादृशस्य च तस्य दुर्वचत्त्वान् असमाधेयैव साऽनुपपतिरिति ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति