पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः चिन्मात्राश्रयत्वम् १२१ एतेन नित्यमुक्तत्व संसारित्व सर्वज्ञत्व किञ्चिज्ज्ञत्वादिव्यवस्था ब्रह्मा- ज्ञानवादे कथमपिन घटत इति च ज्ञापितम् । अध्यासाघीना हि विवि- धभेदकल्पना | अध्यास एव न सम्भवतीति स्फुटं निरूपितम् । तस्मात् शुद्धचैतन्यं विद्यां च केवलां मूलकारणं कृत्वा जगदुतत्तिस्थितिलगा- दिकनुपपादयितुं न शक्यमित्यवगन्तव्यम् । अध्याससम्भवं कृत्वा चिन्तायामपि अविद्या परिणामानां अन्तःकरणादीनां भेदेऽपि अच्छेवस्य अभेद्यस्य एकस्य चैतन्यस्य तैश्छेदनभेदनासम्भबात् अध्यासकार्याणि सर्वाणि तम्मिन्नेकस्मिन्नेव भवन्तीति नास्ति व्यवस्थायाः सम्भवः । यथा अस्मच्छरीरें प्रदेशभेदेन नानाप्रकारशीतोष्णादिविशेषेषु सत्स्वप तत्कार्याणि सर्वाणि तत्तच्छरीरावच्छिन्नम्य एकस्य आत्मनो भवन्त, न तु तस्मिन्नात्मनि तैः कश्चन भेदी भवति तथंह द्रष्टव्यम् । तेन संसा- स्त्विं यदि भवति तहिं नित्यमुक्तःवं नास्ति । यदि तु नित्यमुक्तत्वमस्ति ·तहिं संसात्विं नास्ति, इत्यापतति । न तु नित्यमुक्तः कश्चित्, अपरः संसारीति विशेषः सुवचः | एकत्वाञ्चैतन्यस्य | उपाधीनां तत्तकार्योत्पत्ति- प्रदेशब्यवस्थामात्रहेतुत्वात् । कार्यभाजश्चैतन्यस्य सवत्र एकत्वेन तत्र व्यवस्थां प्रति हेतुत्वात् । उपाधांनां प्रतिबिम्बपक्षपातित्वेऽपि उप हिते वस्तुतो विशेषासम्भवात् । दर्पणस्य मुखस्थौल्य प्रदर्शऋत्वेऽपि वस्तुतः प्रतिमुख स्थौल्याभावात् । अन्यथा परिमाणभेदेन तस्य मुखः तिबिम्बत्वा- योगात् । न च स्वस्मिन्न विद्यमानमपि स्थौल्यं उपाधिवशात् प्रतिमुखं यति । द्रष्टा पुरुषेणैव तदर्शनात् । प्रकृते च मुखपुरुषयोरिव शुद्ध- चैतन्यप्रतिविम्बचैतन्ययोर्भेदाभावेन संसारित्वं वा असंसारित्वं वा एकमविशेषेण वाच्यम् । तत्र मरुमरीचिकोदकेन मरुभूमेरार्द्रत्वमिव कर्तृत्वाद्यध्यासेन चैतन्यस्य संसारित्वं न भवतीति वा स्वप्न इवाध्यस्त- ज्ञातृत्वभांक्तृत्वादिरूपं तद्भवतीति वा ऐरूप्येण वाच्यम् । न तु स्वेच्छामात्रेण बिम्बप्रबिम्बयोर्भेदं कृत्वा संसारित्वासंसारित्वादि- &