१२४ विशिष्टाद्वैतसिद्धिः कारात् तदतिरिक्त जीवनङ्गोकारात् ज्ञाननिवर्त्यभावरूपाज्ञानोपादानक- मिथ्याजगद्वादाच्च पूर्वोक्ताः सवां अनुपपत्तयः तथैष स्थिता इति तत्र पृथगू वक्तव्यं किमपि नास्ति । विद्येतरत्वेन अविद्येत्यभिहितं कर्म, अज्ञानविपरीतज्ञानरूपा च जीवे वर्तत इत्येतत्तु अस्मा- मिरिष्यन | प्रथमः स्मन् वाचस्पतिमिश्रमते अन्योन्याश्रयदोषः प्राचीनैरुक्तः । तं परिहरन् उत्पत्तो ज्ञनौ स्थितौ वा नास्त्यन्यांन्याश्रयणमित्याह । तत्र ज्ञप्तिं प्रति यदुक्तं ‘अविद्यायाश्चिद्भास्यत्वेऽपि चितोऽविद्य'भास्यत्वाभावान्न दोषः' इति तदसङ्गतम् | अविद्याय: जंवाश्रयत्वविषयायामस्मदीयायां ज्ञप्तौ अन्योन्याश्रयसत्त्वान् । को जीव इति जिज्ञासायां अविद्याश्रयभूतं चैतन्यमिति वाच्यम् । एवं विद्याश्रयः कः इत्यत्र जीव इति वाच्यम् । तथा च जीवत्वज्ञानमविद्याश्रयत्वज्ञानाधीनम् । एतज्ज्ञानं च तज्ज्ञाना- धीनमिति । यथा शीतस्पर्शस्य उष्णेत्तर स्पर्शत्वेन उष्णस्पशस्य शीतेतर- स्पर्शत्त्वेन च लक्षणे पृथिव्या गन्धवत्वेन गन्धस्य पृथिव्यसाधारणगुण- स्वेन च लक्षणे परस्पराश्रयत्वं तद्वत्प्रकृतेऽपीति ज्ञेयम् | स्त्रज्ञानाधीनत- ज्ज्ञानाधनिस्त्रज्ञानकत्वमन्योन्याश्रय इति लक्षणात् । एवं स्थितावपि यद्यप्य विद्या जीवांश्रिता न तु जीवः अधियाश्रितः तथाप्यविद्यानुवृत्ति- जवानुवृत्त्यधना | जीवाश्रितत्वादविद्यायाः । जीवानुवृत्तिश्चाविद्यानु- वृत्त्यधीना अनिद्यानाशे जीवनाशावश्यम्भावात् । तदत्राप्यन्योन्याश्रय- णमपरिहार्यम् । एवमुलत्तावपि सुवचम् । यद्यप्यविद्या तदवच्छिन्न चैतन्यरूपो श्चानादी, तथापि जीवत्वस्योपाधिकृतत्वादुत्पत्तिरभ्युपगन्तव्यैव । अन्यथा स्वाभाविक जीवत्वं स्यात् । तच्च कदापि न निवर्तेत । तत्र जीवस्वरूपम विद्याधीनम् । अविद्यास्वरूपमपि आश्रयजीव स्वरूपाधीन- मित्यस्त्येवेत रेतराश्रयत्वम् । अविद्याजीवयोरन्योन्याधीनत्वं हि भव-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति