पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प'रच्छेदः अज्ञानविपयत्वम् १२७ कुतो व्यावृत्तिः । यतो हि घटादि न स्त्रात्मानं जानाति नापि परं किमपि, ततो जडमुच्यते । ब्रह्मापि तथा चेत् न ततो व्यावृत्तं तत् । स्टुरगान ज्ञानत्वमिति चेत् दीपोऽपि स्फुरति । न हि ततस्तस्य ज्ञान्त्वम् । वस्तुतस्तु स्फुरणं नास्ति | ज्ञानगांचरीभवनं हि स्फुरणम् । नहि दीपस्यैव चैतन्यस्य तदस्ति | प्रसरत्प्रभत्वं वा स्फुरणम् । एतदपि नास्त्येव । एवं जडत्वे च ब्रह्मणः पुनस्तस्य अज्ञानविकल्प को लाभः ? एतेन “प्रकाशस्वरूपं ब्रह्म । तदाश्रिताऽविद्या तेन प्रकाश्यते च सदावृणोति च । यथा इन्दुमासी राहुस्तेनैव प्रकाश्यते” इति निरस्तम् | वैषम्यात् । शीतरश्मिमाली हि चन्द्रमाः | तस्य भूयिष्ठाः किरणाः राहुणा छाद्यन्ते । कतिपये च प्रसृतास्तं प्रकाशयन्ति । न च ब्रह्म तथाविधम् | येन प्रकाशञ्चावरणं चोभे उपपद्येयाताम् । तस्माद्यथाव- कशोवा सर्वथा प्रकाशो वा न त्वान्तरात्तिकी दशा सुवचा। तत्र वाशक्यत्वान् अन्त्ये आफब्रह्मणो ऽविद्याविषयत्वमयुक्तमिति । अत एव चिन्मात्रमेवाविद्याविषयः । स्वप्रकाशत्वेन प्रसक्त- प्रकाशे तस्मिन् आवरणकृत्य सम्भवात्" इत्येतदपि निरस्तं भवति । स्वप्रकाशत्वेन स्वं प्रति प्रसक्तस्य प्रकाशस्य घटान्तर्वतिंदीपप्रकाशस्य तं प्रतीव आवरितुमशक्यत्वात् । अन्यस्य च द्रष्टुरमावेन तं प्रत्याव- रणस्य दुवंचत्व त् । न चास्येवान्यो द्रष्टा जीव इति वाच्यम् । वस्तुतोऽस्यान्यत्वाभावात् । अन्यथाऽद्वैतभङ्गापत्तेः। काल्पनिकमेवान्य- त्वमिति चेन्न । कल्पनं न सम्भवतीत्युक्तत्वःन् । शुद्धचैतन्यं हि निस्सङ्गं न किञ्चित् कल्पयति । न च अवोपहितं सत् तत् कल्पयति । तस्मा- देव हेतोः । न हि अविद्यया शुद्धचैतन्ये कश्चन विकार आधीयते येन तत्कल्पकं भवेत् । नापि शुद्धचैतन्यं अविद्यायां तादृशं कञ्चन विशेषमा- धातुं शक्नोति येन स्वयं जडाऽपीयं कल्पिका स्यात् । नापि जीवः कल्पकः ।