पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः शुद्धचैतन्योपाधि विशेषत्र्यतिरिक्तस्य जीवनदार्थस्यामःथन् । चैतन्यांशस्य निविकारत्वेन उपाधेर्जडत्वेन च कल्पकत्वः योगात् । प्रथमः तत्र च किञ्च जीवस्यान्यत्वे तं प्रति परस्य आत्मनः अयोग्यत्वादेव प्रकाश- प्रसक्तिर्नास्तीति आवरणकल्पनं व्यर्थमेव । न हि पर आत्मा परं प्रति प्रकाशेत । किञ्च यदि विद्या स्वाश्रयस्य परं प्रत्यावारिका तहि सा विद्या न स्यात् । न हि अन्य विद्या अन्यस्य 'नास्ति, न प्रका- शते' इति व्यवहाराय प्रकाशते' इति व्यवहाराभावाय वा कल्पते । यवनिका तु स्यात् । यत्तु अज्ञानं द्विविधम् । एकं शुक्त्यवच्छिन्न- चैतन्याश्रितम् । अपरं च प्रमातृत्वप्रयोजकोपाध्यवच्छिन्न चैत वात- मित् िअज्ञानद्वैविध्यमुच्यते, तत् केवलकुकल्पनामात्रम् | यत्र ज्ञानप्रसङ्गः तत्रैवाज्ञानस्थितेः । तस्य विषयगतत्वे मानाभावात् । तदेवं स्वरूपत आश्रयतो विषयतश्च दुर्निरूपाऽविद्येति स्थितम् । ३८. अहमर्थः । अहमर्थस्य अविद्यापरिणामत्व भ्युपगमनिवेन्धापातादपि अद्वैत न पारमार्थिकमिति शक्यं ज्ञातुम् । तथा हि । अहं जानामि, अहमिच्छामि, अहं करोमि, अहं दुःखी, अहं सुखी भविष्यामि, इति तार्थाद्ववेकिनामपि अबाधिता प्रतीतिर्वर्तते । तथा च शरीराद्यतिरिक्तः ज्ञानाद्याश्रयभूतः आत्मा अमर्थ इति सिद्धयति । का नामात्रानुपपत्तिः यतोऽनात्मा कश्चिद्हमर्थ इति कल्पयेम | कृशोऽहं स्थूलोऽहमियपि प्रतीतिरस्तीति चेत् काममस्ति । ततः किम् | न हि उष्णं जलं, शीतं शिलातलमित्यादिः प्रतीतिरस्तीत्यतो हेतोः अग्निरुणः जलं शीतमिति व्यवस्था भञ्ज द्यमः शोभते । ननु इच्छादि विशिष्ट एवाहमर्थो गृह्यते । सुषुप्नौ च नेच्छादय इति तदा कथमहमर्थानुभवः । न चेच्छादि विशिष्ट एवाहमर्थो गृह्यत इति नास्ति नियम इति वाच्यम् | गुणिग्रहणस्य गुणग्रहणव्यात्त्वात् ।