परिच्छेदः अहमथः १२६ अन्यथा रूपादिहीनोऽपि घटः प्रथेत । न च रूपादिहितानां तेषामसत्त्वं तत्र बीजमिति वाच्यम् । पूर्वरूपनाशाग्रिमरूपानुत्पत्तिक्षण द्यक्षगादौ - तद्विनाऽपि सत्त्वात् । एवं च गुणाग्रहणे कथं गुणिग्रहणम् । तथा च निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम् | अनुभवाभावे च न तस्य जागरे परामर्शः। तथा चाज्ञानाश्रयत्वेन सुषुप्रावनुभूयमानादात्मनोऽह- ङ्कारो भिन्नः । एवमेवात्मान्यत्वे सिद्धेम्वप्रकाशत्व साधने नान्योन्या- श्रयः । न च तर्हि अहमस्वा समित्यहमर्थस्य परामर्शानुप्रवेशानुपपत्तिः । तदंशे परामर्शत्वासिद्धेरिति चेत् । वामः । पूर्वरूपनाशा ग्रिमरूपा- नुत्पत्तिज्ञणाद्यक्षणादौ गुणिग्रहणमस्ति न वा ? उक्तव्यःभिङ्गः । अन्त्ये ग्रहरणकाले सर्वदा गुणानां नियमेन तत्र सत्त्वमेव ग्रहण,स्य तद्वि- पयकत्वे प्रयोजकमिति तदसत्त्वकाले गुणिमात्रग्रहणं नानुपपन्नम् | स्वय- प्रकाशो ह्यहमर्थ आत्मा | अहं जानामीत्यादिप्रतीतिध्वपि स्वयम्प्रका- शत्वादेव स . काशते, सुषुप्तौ तु गुणानामभावान तेष प्रकाशविरहेऽपि स्वयं स्वस्मै प्रकाशमानो वर्तत इति काऽत्रानुपपत्तः । यदि च केनापि हेतुनाऽहमर्थः सुषुन प्रकाशेन तहिं तदप्रकाश- मात्रमास्थेयम् । कुतस्तु खलु " तथा च निर्गुण एवात्मा गृह्यत इति स्त्रीकर्तत्र्यम्” इत्युच्यते ? 'अहम वापसमित्यादिज्ञानान्नान्य आत्मपरा- मर्शः' इति स्वयं भवाना । अनेन अमर्थातिरिक्तस्य सुषुप्तावनुभूय- मानत्वे एतत्परामशतिरिक्तं किमपि प्रमाणं नास्तीत्येतत् सम्प्रतिवन्नम् | न तु परामर्शेन अहमर्थातिरिक्तस्यानुभूयमान्त्वं कथं सिद्धयति । मिति प्रोकलीनं स्वात्मानुसन्धानम् । अव समिति वृत्तस्वाप- परामशः । न किञ्चिदद्वेदिषमिति विषयान्तराज्ञानपरामर्शः । न त्वज्ञा- नानुभवपरामर्शः । यथा चैतत् तथोपपादिन मधस्तान् । तथा चास्मिन् परामर्शे नास्ति यः कोऽप्यंशः यः सुषुमौ अमर्थातिरिक्तस्यानुभवं गमयति । •
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति