अहमर्थ: १३१ “अथातोऽङ्कारादेशः अमादेशः इति श्रुतिरनि पृथगुप- देशेन पार्थक्ये प्रमाणम्” इत्येतदपि नास्ति । निरतिशयसुखरूपतयः । भूमशब्दाभिधेयस्य ब्रह्मणः बहुधा आसनं ह्यत्र विधीयते । तत्र 'स एवम्धस्तान्' इति नेनैव रूपेण अमेवाधस्तत्' इति उपासितुरन्तयो- मित्वेन ‘आत्मैवाधस्तान्’ इति आत्मत्वेन च गृहीतस्य तस्य सर्ववस्तु- तादात्म्यचिन्तनमुपदश्यते । तत्र उपासिता जीवात्मा उपास्यमानाद् भूमशब्दितात् अत्मशब्दिताञ्च ब्रह्मणो भिन्न इति प्रतीयते । एवं सति जीवनरयोरैक्य कृत्वा तस्मादात्मनः पार्थक्यमहङ्कारस्य | जडवस्तुन इहाव- गयत इति कथमेतत् ? परिच्छेदः सम्बोध्यचेतने त्वंशब्दवत् वक्तृचेतने अहंशब्दः प्रयोगप्राचुर्थान्मु- ख्यवृत्तः। प्रकृतिपरिणामभूतान्मह्त्तत्त्वादुत्पन्ने अहङ्कारत अहङ्कार शब्दः देहे अहमभिमानप्रयोजकत्वं निमित्तीकृत्त्य प्रयुज्यते । 'ईश्वरोऽह- महं भोगी सिद्धोऽहं बलवान् सुखी' इति भूयोभूय प्रकाशनाय आत्मनिर्देशप्र॰वण्यजनकतया गर्वेऽप्यहङ्कारशब्दप्रयोगो भवति । एवं जडतत्त्वविशेषवाची गवंवाची चाहङ्कारशब्दोऽन्यः | वक्तृस्वात्मवाची अहंशब्दोऽन्य इति विविच्य बुद्धो धार्यम् । यद्यपि क्वचित् गर्वरूपाहङ्का- रतात्पर्येण अहंशब्द एव प्रयुज्येत यथा “अमस्य महान्' 'अनहम इमे इति तथाऽपि तत्रानि स्वोत्कर्षाभिव्यञ्जकाहंशब्दाम्रो डन हेतुत्वसम्बन्ध- रूपलाया गर्वस्तदर्थः इति ज्ञेयम् । इत्थं च साक्षाद्बाध्यत्वात् अहंशब्द- य आत्मा मुख्योऽर्थः । इममर्थं शब्द वा द्वारीकृत्यैवार्थान्तरबोधने सति तदर्थान्तर सर्व लक्ष्यमिति न्यायविद्भिरङ्गीकर्तत्र्यम् । यत्तु 'अ- अर्थः अनात्मा अहम्प्रत्ययविषयत्वात् शरीरवत् इत्यनुमानं तत्पूर्ववदेवोप- हास्यम् । चोरो न चेतनः स्थाणुप्रत्ययविषयत्वात् स्थाणुवत् | गङ्गा न नदी गङ्गाव्यवहारविषत्वात् तीरवत इत्येवमादिभ्यः का विशेषोऽस्य प्रयोगस्येति विभावयतु भवान् । ,
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति