परिच्छेदः अहमश: १३३ युक्तमिति । वस्तुतस्तु अनात्ममात्रवृत्तित्वादित्यत्र ज्ञानानाश्रय मात्रवृत्ति त्वम्य विवज्ञितत्वान्न कोऽपि दोषः । अहं जानामत्यवाधितप्रनीत्याऽ- हमर्थस्य ज्ञानाश्रयत्वं हि सम्प्रतिपन्नम् । तदेवं श्रहं जानामीति ज्ञानाश्रयतया प्रत्यक्षसिद्धत्वात्, सुषुनावपि अहमर्यान्वयविधुरकिञ्चिदनुभवस्य साधयितुमशक्यत्वात् अनुमानाच अहमथं एत्रात्मा, स अत्मैवेति स्थितम् | श्रुतयश्चात्र प्रमाणम् । “कस्मि- वहमुत्क्रान्ते उत्क्रान्तः भविष्यामि । स प्राणमसृजत | " " हन्ताहमि- मस्तिस्रो देवताः” इत्यादौ प्राणमनःसृप्टेः पूर्वमहन्त्वाक्तेः । 'तदात्मान. मेवावेत् अहं ब्रह्मास्मीति' इत्ववधारणेन शुद्धात्मनोऽहन्त्वं क्तेः । “अह- मित्येव यो वेद्यः स जोव इनि कीर्तितः । स दुःखी स सुखी चैव स पात्रं वन्धमोक्षयोः” इत्यादौ मोक्षान्वयोक्तेश्च । अत्राह अत्र सर्वत्र बिशिष्टव।चक्रस्यैव'हम्पदस्य लक्षणया निष्कृष्टाहङ्कारचैतन्ये प्रयोगः | लक्षणात्रीजभूनानुपपत्तिरुक्ता । एतेन 'मामेव ये प्रपद्यन्ते' इत्यादिस्मृतयो- पिव्याख्याताः । एतयोऽहं सोऽसौ इत्यादावपि लक्षणःऽऽश्रय- गीया। विशिष्टवाचकत्वेन क्लस्य विशेष्ये लक्षणाया आवश्यकत्वात् ' इति । "अस्मदभिमताद्वैतप्रक्रियानुरोधेन श्रुतिस्मृतयां व्याख्यातव्याः । न तु तदनुरोधेन तत्त्वनिर्णये वयमुत्सुकाः, " इत्युक्तं भवति । नहि लक्षणा स्वासिकी | जघन्यवृत्तित्त्वात् । तस्मादमिधेय एवार्थः उत्सर्गतो ग्राह्यः । अहमित्यस्य च उत्पादितरीत्या आत्मैवाभिधेयोऽर्थः । जड़ा- शङ्कारतत्त्वविशिष्टेऽर्थे अहमित्यस्य लोकतो वा शास्त्रतो वा न व्युत्पत्ति- रस्तीति न तदस्याभिधेयम् । तस्माद् बढषु श्रुतिमृतिवाक्येषु लक्षणात्र- सञ्जकत्वादपि अहमर्थो नानात्मेति निश्चेतव्यम् । एवं सति प्रत्यहं अहङ्कारांवनाशोत्पत्ति कल्पनगौरवं च परिहृतं भवति । बन्धमोक्षादिसामा- नाधिकरण्यं चाचसा भवति । ' स एव तु मनुस्मृतिशब्दविधिभ्यः' इति सूत्रोक्तं जीवैक्यं चाबाधितम् । इत्यादि विवेचनीयम् ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति