पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः दं तत्त्वम् | आत्मानुभवः सर्वः अहमित्यकारक एव | अश्वि प्रादेशिकः संसायेंव आत्मा प्रकाशते । यद्यव्ययं देहादिभ्यः पृथक् स्कुटं न प्रकाशते तथाऽपि ज्ञातृत्वादिभिः देहेन्द्रियादिविलक्षणतया विवे- किभिर्निश्चीयत एव । अस्य सर्वानर्थ हेतुभूतसंसारबन्धनिवृत्तये ज्ञ यतया शास्त्रेषूपदिश्यमानः परमात्मा अखिलहेमप्रत्यनीक कल्याणैकतानतया स्वेतरसमस्तवस्तुविलक्षणः अत्यन्तं भिन्नः । सोऽपि स्वमात्मानं अह- मित्येवःनुभवति। “हन्ताहमिमाम्तिस्रो देवताः" इत्यादिषु यथा । एवं जीवपरमात्मनोरत्यन्तं भिन्नत्वेऽपि परस्य जीवान्तयांमितयाऽवस्थानान् विवेकिनामहमिति प्रत्ययः परमात्मपर्यन्ता भवितुमर्हति । एव मामुपास्त्रेत्ति प्रतदनं प्रतीन्द्रियस्योपदेशः । एवं परमात्मनोऽप्यहम्प्रत्ययः स्वापृथसिद्ध विशेषगगोचरो भवति । यथा “बहुस्यां प्रजायेयेति । विशेषद्वारा बहुभवनं ह्यत्र विवक्षितम् | स्वरूपस्या विक्रियत्वात् । सत्यं ज्ञानमनन्तम्, निर्विकारम् इत्यादिश्रुतेः । एवं त्वमित्युक्तेऽपि त्वदन्त- रात्मेत्यर्थो भवति । न च तत्त्वमसीत्यत्र सामानाधिकरण्यादभेदाऽर्थो वक्तव्यः, नान्य इति शङ्कयम् । सर्वव्याप्रत्वप्रादेशिकत्वासं सारित्वसंसा- रित्वादिभिरत्यन्तविलक्षणयोरभेदस्य बोधुमशक्यत्वात् । न च लक्ष- गया तद्बोधः । लक्षणायां प्रमाणाभावान् । इयं गौः, नीलो घटः, देवोऽहं जातः इत्या॑दष्विव मुख्यवृत्त्यैव समञ्जसार्थप्रतिपत्तेः || सामाना- धिकरण्यनिर्देशहेतोः शरीरात्मभावस्य "ऐतदात्म्यमिदं सर्वं स आत्मा”, इति स्पष्टमभिधानाद्भेदस्य बाधाच्च । न चाप्राप्तत्वात् अभेदे शास्त्रस्य `तःत्पर्यम् । ब्रह्मात्मत्रत्वस्याप्यप्राप्तत्वेन ताप्तर्यविषयत्वसम्भवात् | प्रमाणी न्तरप्राप्तार्थाबाधकत्वेन तस्यैव शास्त्रतात्पर्यविषयत्वस्य न्याय्यत्वाञ्च | न ह्यबाधेनोपपत्तौ बाधाङ्गीकारो युज्यते । तदेवं सर्वसामञ्जस्ये सति सर्वा- सामञ्जस्यप्रसञ्जकाप्रामाणिकाद्वैताभिनिवेशेन अहमर्थानुभवस्य पूतिकूश्मा- एडीकरणोद्यमो न युज्यत इति । १३४ ,