पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः स्याध्यस्यमानत्वेन च पृथक्करणान्मेलनाभावात् । अध्यासातिरित्त स्य मेलनस्थानिष्टत्वाञ्चेति । ननु यद्यात्मनः कर्तृत्वं नाध्यासिकं तर्हि स्वाभाविकमिति स्यात् । चेष्टापत्तिः । 'यथा च तक्षांभयथा' इति तस्य औपाधिकत्व साधना दिति चेन्न । औपाधिकत्वेऽप्याध्या सकत्वासिद्धेः । न हि वास्वादिकमादाय कर्म कुर्वतः तक्ष्णः वस्तुतः कर्तृत्वं नास्ति । तद्वत् मनदिद्वारा कर्म कुवंतो जीवस्य वास्तवं कर्तृत्वं दुरपह्नवम् । यथा पुरुषस्यान्नभोक्तृत्वं स्वाभाविक्रम्। औषधभातृत्वमौपाधिकम् । न त्वेतेन तदाध्यासिकम् । तद्वत्प्रकृतेऽपि । वस्तुतस्तु अस्मिन् सूत्रे यथा वास्यादिसन्निवानेऽपि तक्षा इच्छायां सत्यां कर्म करोति, असत्यां न करोति च, तथा आत्मा कर्ताऽपि इच्छायां सत्यां वागादिभिः कर्म करोति, असत्यां न करोति चेत्युमयथाभाव उच्यत इति ज्ञयम् । ५ 'विज्ञानं यज्ञ' तनुते' इति विज्ञानवाच्यस्यात्मनः कर्तृत्वं श्रूयते । तच्च 'व्यपदेशाच्च क्रियायां न चेन्निर्देशविनर्ययः' इति सुत्रेण जीवस्य कर्तृत्वे प्रमाणतया निर्दिष्टम् । न चात्र विज्ञानमित्त मनो बुद्धिर्वा उच्यत इति वाच्यम् | मनोमयस्य पृथगुक्तत्वात | ततः परं आनन्दम- यापूर्वं जीवस्यैव वक्तव्यत्वात् । वाजसनेयके ‘य आत्मन तिष्ठन्' इत्ये- कस्यां शाखायां पठ्यमाने शाखान्तरं तत्स्थाने 'यो विज्ञाने तिष्ठन्' इति पाठदर्शनात् विज्ञानशब्दस्य जीवात्मनि प्रसिद्ध चवगमाच्च । 'तद्गुणसा- · रत्वात्तु तद्वचपदेशः प्राज्ञवत्' इति सूत्रेण जीवात्मनो विज्ञानशब्दवाच्यत्वे उपपत्तेदर्शितत्वाच्च । ध्यायतीव लेलायतोवेति इवशव्दः परतन्त्रप्रमो प्रमुरिवंतिवन् परतन्त्रतामात्रपरः । यत्तु तद्वत्र बाधक नास्तीति तन्न | अह् करांमीत्यबाधितप्रत्यक्षस्य, “विज्ञानं यज्ञं तनुतः" इत्यादिश्रुतः शास्त्रार्थत्वादियुक्तेश्च बाधकत्वात् । किञ्च स समानः सन्नुभौ लोका- अनुसञ्चरतीत्युपक्रम्य 'सहि स्वप्नो भूत्वेमं लोकमतिकामति' इत्यतः