१३८ विशिष्टाद्वैतसिद्धिः पत्तिः । अनारोपितकृतिमत्त्त्रे साध्ये जातेष्टिपितृयज्ञादिजन्यफलान्वयिनि व्यभिचारः”—इति, तदपि आरोपितस्य कार्यकरत्वासम्भवस्योपपादि- तत्वात्, कृतिसमानाधिकरणतया शास्त्रोपदिष्टतत्फलान्वयित्वस्यैव हेतुतया विवक्षितत्वेन व्यभिचाराप्रसक्तेश्चानुपपन्नम् । यदि हि जाते ट्यादौ व्यभिचारेण कर्तृत्वभोक्तृत्वसामानाधिकरण्यनियमो न स्यात्, तर्हि अन्यस्य स्वर्गमोक्षाद्यर्थं अन्येन तत्साधनमनुष्ठीयेत : यजेत स्वर्गकाम इति सामानाधिकरण्यं श्रुतमिति चेत् ब्रह्मविदाप्नोति परमिति प्रकृतेऽपि श्रुतमेवेति कथं जातेष्ट्यादिकमादाय व्यभिचारः प्रदर्श्यते । वञ्चनामात्रं ह्येतत् । प्रथमः ज्ञानं ज्ञानसमानाधिकरणं, ज्ञाननिवर्त्यत्वात् ज्ञानप्रागभाववत्, इतीदमनुमानान्तरं नास्माकमिष्टम् ! ज्ञानप्रागभावाद्यतिरिक्तस्य भाव- रूपाज्ञानस्यास्माभिरनभ्युपगमात् । अभ्युपगमवादे तु साध्वेवेदम् । न चानादिभावभिन्नत्वमुपाधिः । अज्ञानं ज्ञानसमानाधिकरणं न, अनादि- भावत्वादिति उपाधिष्यतिरेकेण साध्याभावसावने ब्रह्मादेः दृष्टान्तस्ये ष्टत्वे निराश्रयत्वस्योपाधित्वात् । अनिष्टत्वे दृष्टान्तस्याप्रसिद्धया हेतोरसाधारण्यात् । उत्तरज्ञान निवर्त्यपूर्वज्ञानस्य दृष्टान्तत्वे उपाधिप्रसङ्ग- विरहाच । दुःखादिभोगः मोक्षसमानाधिकरणः, बन्धत्वात्, सम्मतवत् इतीदं तृतीयमध्यनुमानमदुष्टम् । तथा हि । स्वनिरूपिताधिकरणतावच्छेदका- वच्छिन्ना । या मोक्षनिरूपिताधिकरणता तद्वद्वृत्तित्वं साध्यं विवक्षित अन्तःकरणातिरिक्तजीवात्माङ्गीकारे भोगाधिकरणताया मोक्षाधिकरण तायाञ्च आत्मत्वरूपैकधर्मावच्छिन्नत्वात् सामानाधिकरण्यमुपपद्यते । अन्यथा तु अन्तःकरणार्वाच्छन्नचैतन्यत्वं भोगाधिकरणतावच्छेदकम् । शुद्धचैतन्यत्वं मोक्षाधिकरणतावच्छेदकमिति विवक्षितं सामानाधि- करण्यं न घटते । अत इमनेनानुमानेन निरसितुमिष्यते । न चात्र
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति