पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तृत्वाध्यासः १३६ दोषः कश्चित्सुवचः | तस्मान्नाध्यासिकमात्मनः कर्तृत्वम् | अपि तु वास्त- वमेवेति सिद्धम् । यत्र अन्ते उक्तम्–‘तस्मात् सिद्धं मनसः कर्तृत्वमात्मन्यध्यस्यत इति' इति; तत् “आत्मनि कर्तृत्वान्तरस्यैवाध्यासात् । न च तहि कर्तृत्वद्वयस्य विविच्य प्रतीतिः स्यात् । आत्मान्तःकरणयोरैक्याध्या- सात् ।" इत्यनेन प्राक्तनकर्तृत्वान्तराध्यासवचनेन विरुद्धम् । किञ्च एतेन अन्तःकरणे कर्तृत्वप्रतीतिर्नास्तीत्येवाभ्युपगतं भवति । कर्तृत्वद्व- यस्य विविच्य प्रतीतिर्नास्तीति, आत्मनि कर्तृत्वान्तर मध्यस्यत इति चाभिधानात् । अहं करोमीति हि आत्मकर्तृत्वावगाही प्रत्ययः । कर्ताऽहं करोमीति अन्तःकरणगतस्य कर्तृत्वस्य पृथक् प्रत्ययविषयत्वं नेष्यते । ‘अन्तःकरणं कर्तृ’ इत्यपि प्रतीतिर्नास्तीति च स्वयं भवता उक्तम् । तथा च अन्तःकरणकर्तृत्वमप्रतीत मसदित्येवायातम् । प्रतीतत्वात्तु आत्म एव तत् । न च आध्यासिकम् | प्रती तत्वे मानाभावात् । अद्वैतसिद्ध्ये ऋल्पनीयमिति चेत् एतद्विरोधादद्वैतं नेष्टव्यमिति पश्यतु भवान् । ४०. देहात्मभ्रमः । अहं जानामीत्यबाधितात् प्रत्ययात् जडभूतदेहातिरिक्तः अहमर्थः ज्ञाता आत्मेत्यवगम्यते । अनुमानागमाभ्यां दृढीक्रियते चैतत् । परं तु अयं निरूपकारणां विवेकः । अन्ये देह मेवात्मानं मन्यन्ते । न ततिरिक्तं सन्तं प्रतिपद्यन्ते । यद्यपि स्वयम्प्रकाशत्वात् अविवेकिनामध्यात्मा प्रकाशत एव । तथाऽपि शरीरा दकस्य नित्यत्वज्ञानत्वसूक्ष्मत्वादिरूपस्य तदीय- स्याकारस्याप्रकाशात् उष्णोदक संसृष्टस्याग्नेरिव क्षीरमिश्रस्य नीरस्येव चात्मनः पृथग्ग्रहणं न भवति । तेन एषां ऐक्यभ्रमः | स्थूलोऽहं कृशोऽह- मिति । विवेकिनां तु अपृथक् सिद्धिसम्बन्धादेवं प्रतीतिरिति प्रमैव सा । गौस्ति- शुक्लो घट इति यथा शुक्लरूपस्य तद्विशिष्टे द्रव्ये पर्यवसानं, ।