पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम १४० विशिष्टाद्वैतसिद्धिः तीति गोत्वजातेः तद्विशिष्टे पर्यवसानं, तथा स्थूलोऽहं कृशोऽहमिति स्थूलक्रशशर रविशिष्टे पर्यवसानमिति अबाधितविषयत्वात् अस्याः प्रमात्वं नानुपपन्नम | यत् देहात्मभेदस्य लोकसिद्धत्वे तबोधिकायाः श्रुतेरनुवादतापन्ति रिति, तत् 'अत्राभेदो व्यवहारकालीनेन परीलूिनप्रमाभवेननुमाना दिना बाध्यते’ इति वदतो । भवतोऽपि समानम् । न ह्यनुमानेनावगते अतः प्रामाण्यं भवेत् । अवगतांशविशदी फरणपूवकं अनवगतानेकांश बोधनात् प्रामाण्यमित्यप समानमेव । यच्च मम देह इत्यत्रानौपचारिकः अहं गॉर इत्यौपचारिक इत्यत्र विनिगमकाभाव इति तदपि न । मम क्षेत्रं मम चक्षुः इत्यादिवत् उपचारनिमित्तस्य बाधस्य विरहादनौपचारि- कत्वं मम देह इत्यस्य । अहं गौर इत्यत्र तु अहमर्थस्य ज्ञातृत्वेन, गौर त्वस्य प्रत्यक्षे देहधर्मत्वेनावगतस्य अह्नमर्थधर्मत्वायोगेन च प्रकारान्तरे- णान्वयो वाच्य इति विनिगमकस्य सत्त्वात् । यदपि ‘नीला बलाकारों इत्यत्र नीलाद् भेदकस्य बलाकाश्वस्य प्रहेऽपि नीलभेदसाक्षात्काराभावस्य तदभेदसाक्षास्कारस्य च दर्शनान् । ” इत, तत्र नीलपदस्य नीलरूपः परत्वे तेन सह धमण भेदसाक्षास्कार एत्र वर्तते, न तु तद्भावः । तथा तदभेदसाक्षात्कारो न वर्तते, किन्तु तदभाव एव । नीलरूपवपरत्वे तद भेदस्यैव बलाकायां वतमानत्वात् “भेदकस्य बलाकावादेर्भरिति न युज्यते वक्तुम् । एवमविवेकिनां देहात्मैक्यभ्रमे सत्यपि इतरेषां कृशोऽहमित्या- दिप्रतीtतः प्रमेव । न त्वंपमांप भ्रम इत्युपपादितम् । अथ यदुच्यते एवं ब्राह्मणो यजेनेत्यादिश्रुतिरपि ब्राह्मणस्वाश्रयश्री रस्य जडत्वेनानियोज्यतया तदैक्याध्यासापन्नमात्मानं नियुञ्जना तत्र प्रमाणम् ।” इति, तपि स्वदर्शनानुरागमात्रविम्भितम् । ब्रह्मणत्वा- अयशरीरमात्रस्य नियोगानर्हत्वान् तदर्हः शरीरातिरिक्तः कश्चित् श्रुते सभिमत इति प्रतीयते । तस्य च बोद्धत्वाचश्यम्भावात् स आत्मेति