परिच्छेदः कर्तृत्वाध्यासः निश्चीयते । तथा च ब्राह्मणशरीरविशिष्टो ब्राह्मण इति श्रुत्युक्त इति गम्यते । एवं सति देह्रैक्याध्यासः पत्र आत्माऽत्राभिप्रेत इति कथमुच्यते ? अध्यासस्य कः प्रसङ्गः ? देहविशिष्ट इति कथमुच्यत इति चेन् शरीर- वाचिनां शब्दानां शरीरिपर्यन्ताभिधायित्वव्युत्पत्तेरिति गृहाण | देवदत्तो जानाति, इति हि बहुलं व्यवहरन्ति । न चायमप्रामाणिको व्यवहारः । न चौपचारिकः । स्मनतित्वाभावान् | न च देहात्मनोरध्यासातिरिक्तः कः सम्बन्ध इति वाच्यम् | देहात्मभावस्यैव सम्बन्धत्वात् । यद् द्रव्यं यस्य चेतनस्य अथक्सविशेषणं तत् तस्य शरीरामनि लक्षगान् । अध्यासातिरिक्तो हि कश्चित् सम्बन्धो देहात्मनोरवश्यमङ्गी कार्यः अन्यथा पर देहेन स्वात्मैक्याध्यासाभावे किं नियामकं भवेत् । एतेन विधिवाक्ये ब्राह्मणशब्दो लक्षणया देहविशेषैक्याव्यासवत्परः देहविशेषसम्बन्धपरो वा सम्बन्धस्तु अन्यस्याभावादैक्याण्यास एवेति निरस्तम् । मुख्यवृत्तौ सम्भवन्त्यां लक्षणाया अन्याय्यत्वात् । लक्षणा- पक्षेऽपि स्वावच्छिन्नभोगवत्वादिरूपे लोकप्रसिद्धे सम्बन्धे सति ध्यास- सम्बन्धग्रहणे विशेषहेत्वभावाच्च । गेहीतिवत् देहीति प्रययोऽध्यस्तोति भवानेवाह | न च तत्रैक्याध्यासः सम्बन्धः | गेहीत्यत्र तदभावान् | देहीत्यस्य च तत्तुल्यत्ववचनात् । तथा च तत्र यः सम्बन्धः स व ब्राह्म- णपदे लक्षणानिबन्धनं भवितुमर्हति, न त्वध्यासः | गङ्गायां घोष इत्यत्र हि तीरे गङ्गाऽभेदाध्यवसाया बहूनामस्त्येव | यथा सारोप क्षणाव दिना-
- मालङ्कारिकाणाम् । न च तावता गङ्गापदेन तोरलक्षणायां संयोगसम्बन्धं
विहाय अभेदाध्यसा निमित्तमा श्रीयते । कालान्तरदेशान्तरदेहान्तरानु- भाव्यफलसाधनविधिनियोज्यस्य देहात्मभेदोपस्थितेरवश्यम्भ वित्वात् भेदर्घाटतानाध्यासिकसम्बन्ध एव लक्षणावीजतचा पुरस्फूर्तिको भवति, न त्वैक्याध्यास इति च विभाव्यम् । यत्त्वत्र ब्रह्मानन्देनोक्तम्- “वस्तुतो ब्राह्मणत्वादिविशिटे ब्राह्मणा- -