पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ विशिष्टाद्वैतसिद्धिः प्रथमः दिपदस्य शक्तिः । ब्राह्मणत्वादिवैशिष्टयं च देह इव आत्मन्यपि व्याव- हारिकत्वान् शक्यशरीरे प्रविष्टम् | जानिकव्यवहारस्य शक्तिमाह कस्यो- भयत्र तुल्यत्वात् । उभयोरेकत्वेन व्यवहारकाले निश्चयाच्च । तथा च क लक्षणादोषः ?” — इति तदिदमत्यन्तमसमञ्जसम् । ब्राह्मण्यं यथा सम- वायेन देहे वर्तते तथैव आत्मन्यपि वर्तत इति किमभिप्रायः, अथवा सम्बन्धसामान्येन ब्राह्मण्य वैशिष्ट्य उभयत्र वर्तत इति । नाद्यः । आत्मन जात्यभावात् । अन्यथा अस्मिन् जन्मन ब्राह्मण्यादिमतो जन्मान्तरे क्षत्रियादिभावानुपपत्तेः । श्रुतं हि जन्मान्तरेषु विविधजात्यन्त- रजन्म | न द्वितीयः | देहवत् शक्यत्वानुपपत्तेः । यत्र ब्राह्मणत्वं समवा- येन वर्तते स एव हि ब्राह्मणपदशक्यार्थः । न त्वभ्यासेन त्राह्मणत्ववानपि । न हि सिंहाँ मारणवक इत्यत्र सिंहपदं माणवके मुख्यवृत्तम् । आरोपसम्ब- न्धेन सिंहत्वं हि माणवके वर्तते । न च तावता सिंहपदं मृगेन्द्र इव तत्रापि शक्तमिति । मूलविरुद्धं चेदं आत्मन ब्राह्मण्यादिवैशिष्टयःभिधा- नम् । तत्र मनुष्यत्वादेरात्मावृत्तित्वस्योक्तेः । यदपि मूले विधिपदलक्षणा- यामुदाहरणतया मन्त्रवाक्यपठने अनुपपत्तिमुद्घाटितवता "पयसा श्रीणीत” इत्यस्मिन् विधिवाक्ये पयःपदे गोपयोलक्षणायां प्रमाणं 'गोभिः श्रीणीत मत्सरम्' इति मन्त्र इत्युक्तम् तदपि चिन्त्यम् । पयसेति सामान्यतः पयःश्रवणात् किं गव्यमेव ग्राह्य, उत अन्यदपीति संशये छागपशुन्यायेन मन्त्रपर्यालोचनया गव्यमेव ग्राह्यमिति निर्णयत इत्ये- तावन्मात्रमेव । न तु श्रुतेन पयसेति पदेन गोपयसां लक्षणया प्रतिपादन- मध्यावश्यकम् । न चाविहितं कथमङ्गं भवदिति शङ्कचम् | कल्पितेन विधिना विधानात् । तत्र च गोपयसेत्येव कल्पनादिति । ." , 'प्रभातृत्वाद्यन्यथानुपपत्तिरपि अभ्यासे मानम्' इत्यपि पूर्ववदेवायु- क्तम् | निस्सङ्गशुद्धचैतन्यात्मकाद्वैतस्य निष्कम्पप्रतिष्ठायां सिद्धायां तदन- न्तरमेवमर्थापत्तिः शक्त्या वक्तुम् | तत्सिद्धयर्थं हि अद्य यत्नः क्रियमाणो