पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अनिर्वचनीयत्वम् १४३ चर्तते । अस्यामवस्थायां इयमर्यापत्तिरुच्यमाना हासायैत्र केवलं कल्पते । न हि स्वपक्षान्यथानुपपत्तिरूपाऽर्थापत्तिः वादिना सचेतसा परं प्रत्युपन्य- स्येत । अस्माभिर्हि ज्ञातृत्वं प्रमातृत्वं कर्तृत्वमिति सर्वमात्मनोऽङ्गी- क्रियते । अहं जानामि, घटं पश्यामि इदं करोमीति निराबाधानुभव- सिद्धं चेदं सर्वम् । एतद्वयतिरिक्तञ्च परब्रह्मभूतः सर्वेश्वरः 'पृथगात्मानं प्रेरितारं च मत्वा’, ‘क्षरात्मनावोशतं देव एकः', ‘अनश्नन्नन्यो अभि- चाकशीति', इशंत श्रुतिशतप्रतिपन्नः । अखिल हेयप्रत्यनीककल्याणैकतानत्वं चास्य तथा । एवं च शुद्धचैतन्यात्मक आत्मा अप्रामाणिकः । तत्र का कथा तस्य प्रमातृत्वसिद्धये अध्यासकल्पनायाः । एवं अत्यन्तासमञ्जस- चहुकल्पना प्रसञ्जकव्वादद्वैतं विदुषामङ्गीकारानर्हमिति तु प्रतिपत्तव्यम् । ४१. अनिर्वचनीयत्वम् । अतिनामभिमता अविद्या वा तन्निबन्धनाध्यासो वा न शक्यते साधयितुमिति न्यरूपयाम | अथर्वचनीयत्वं यदुच्यते तद्वि- मृशामः । पूर्व विश्वस्य मिथ्यात्वमाह । अद्य तु तदुपादानभूताया अवि- द्यायास्तदेव मिथ्यात्वं अनिर्वचनीयत्ववाचोयुक्त्या प्रतिपादयांत | तन्त्र यत् सद्विलक्षणत्वे सति असल सांत सद्सद्विलक्षणत्वं अनि- चंचनीयत्वमिति लक्षणं तत्र सच्छन्देन ब्रह्मरणः, असच्छब्देन तुच्छस्य च ग्रहणे सदसच्छन्दवाच्यस्य कस्यचिदप्रसिद्धत्वात असम्भवो लक्षण- दोषः । अथ एवमर्थो मा ग्राहीत्यभिप्रायेणैव विवक्षितार्थान्तरघटितं लक्षणान्तरमुक्तम् । तच्च 'सत्त्वासत्त्वाभ्यां विचारासहत्रे सति सदसत्त्वेन विचारासहत्वं तदित्येवंरूपम् । सत्त्वासत्त्वाभ्यां विचारासहत्वं च तदु- भयानधिकरणत्वमिति । अत्रोच्यते । कथमेकत्र परस्परविरुद्धोभयान घि- करणत्वसम्भवः ? न हि घटत्व घटेतरत्वांभयान धिकरणं किञ्चिद् भवति । अतात्त्विकस्यैव निषेधसमुच्चयस्याङ्गीकारान्न विरोध इति चेत् तर्हि ब्रह्म- ण्यतित्र्यानिः । वस्तुतो निर्धर्मकत्वेऽपि अतात्त्विकस्य तस्य तस्मिन्नपि