१४४ विशिष्टाद्वैतसिद्धिः प्रथमः सम्भवात् । अव्याप्तिश्च । अविद्यायाः सत्त्वाधिकरणत्वेन तद्नधिकरण- त्वाभावान् । घटादीनां सतामुपादानभूता ह्यविद्या सत्येव । अन्यथा ततो घटार्दानामुत्पत्त्यसम्भवात् । कथमसतः सज्जायेवेति श्रुतेः । घटा- दीनां सत्त्वं नास्तीति चेत् ब्रह्मणोऽपि नास्त्येव । निविशेषत्वाङ्गीकारात् । तथाऽपि सद्रूपत्वमङ्गयत एव । अन्यथा शून्यतापत्तेरिति चेन्न । व्याघातात् । न हो वं कञ्चन भाषेत “बहावुष्णत्वं नास्ति । अथापि स उष्णः। अन्यथा अवह्नित्वापत्तेः" इति । ब्रह्मणि सत्त्वं नेष्टं चेतु अस- दित्येवाङ्गोकार्यम् । इदं नेष्टं चेनू निर्बिशेषत्वं दूरतः परित्यज्य सत्त्व - मेष्टव्यम् । निर्विशेषत्वाय सत्त्वं नेष्यते, शून्यत्वप्रहाणाय सद्रूपत्वमिष्यत इत्यनुन्मत्तः को ब्रूयात् । तथा न यदि ब्रह्म सत् तर्हि अन्यदपि सदिति सत्त्वानधिकरणत्वाभावाव्याप्तिः | यदि तु सत्त्वाभावात् प्रपञ्चादिकम- सत् तद्वदेव ब्रह्माण्यसदिति सत्त्वानधिकरणत्वादतिव्यातिरिति दुरुत्तरं व्यसनम् । कालसम्बन्धित्वरूपं सत्त्वं यद ब्रह्मण्यस्त तर्हि अद्वैतभङ्गः | यदि नास्ति `तुच्छत्वप्रसङ्गः । परमार्थतो नास्ति, कल्पितं तु अस्तीति चेतू किं तेन ? न : शशशृङ्गस्य पारमार्थिकसत्त्वहीनस्य कल्पितेन सत्त्वेन सत्त्वं भवेत् । अबाध्यत्वरूपं सत्त्वमस्तीति चेत् कथम | "ब्रह्मरण सत्त्व- वत् तदत्यन्ताभावस्याप्यभावात् । अन्यथा निर्विशेषत्वादिश्रुतिविरोधा- पत्तेः । ” इति हि अतिव्याप्तिपरिहाराय भवानाह । तथैव बाध्यत्ववत् तत्यन्ताभावोऽपि ब्रह्मरिण न भवितुमर्हति । स्वरूपात्मकमबाध्यत्वमिति चेत् सत्त्वाभावोऽपि तथैव स्यात् । तथा चातिव्यामिस्तवस्था । उभय रूपस्यापि सत्त्वस्य प्रपञ्चे तदुपादाने च सत्त्वाव्यानिश्च तवस्था | कालसम्बन्धित्वं प्रपञ्चादौ कल्पितं, न तु वास्तवम् । अबाध्वत्वं तु स्वरूपत एव नास्ति । ब्रह्मज्ञानबाध्यत्वादिति चेन्न । मानाभावात् । अद्वैतश्रुतिर्मानमिति चेत् प्रमाणान्तरविरोधान् द्वैतपर-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति