पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अनिर्वचनीयत्वे प्रमाणम् १४५ श्रुत्यन्तरविरोद्याच्च भवद्भिमत निर्विशेषाद्वैतपरश्रुतिरेव नास्तीति विभा- व्यताम् । एवं च अविद्यादेर निर्वचनीयत्वाङ्गीकारे वा एतल्लक्षणसाधु- त्वाभ्युपगमे वा अद्वैताभिनिवेशातिरिक्तं किमपि नियामकं नास्तीति प्रस्फुटमेतत् । एतेन प्रति नन्नोपाधौ वाध्य वननिर्वचनीयत्वमिति लक्षणान्त- रासाधुत्वमपि व्याख्यातम् । ४२ निर्वचनीयत्वे प्रमाणम् अथानिर्वचनीयत्त्रे प्रमार प्रदर्शन प्रवृत्तेन यदुक्तम् – 'प्रत्यक्षं तावत् मिथ्यैव रजतमभादित्यादि ।' इति तदयुक्तम् । अत्र मिथ्याशब्दस्य विद्यमानत्वमात्र परत्वात् । भवल्लक्षितानिर्वचनीयत्वपरत्वाभावात् । दूरात् रजतं विद्यमानं मन्यमानः जिघृक्षया समीपं गतः अविद्यमानं जानाति । तस्यायमभिलापः मिथ्यैवाभादिति । अत एव असदेवाभात्, अविद्यमानमेवाभान्, इत्यप्यभिलापो भवति । तथा च विद्यमानत्व: रूपसत्त्वाभावमात्रविषयेयं प्रतीतिः । न तु भवल्लक्षितानिर्वचनीयत्व-- विषया । एतेन 'एतावन्तं कालं असदेव रजतमभा'दित्ययमनुभवः अनि- वचनीयत्वैकदेशसत्त्वत्र्यतिरेकविषयः' इत्येतन्निरस्तम् । न हि असत्त्वा- त्यन्ताभावसदसत्त्वात्यन्ताभावयोः तत्प्रतीतिविषयत्वे किञ्चन प्रमाण- मस्ति | विषयभूतः सत्त्वाभावोऽपि न सामान्यतः सत्त्वप्रतियोगिकः | अपि तु तत्र विद्यमानत्वरूपविशेषप्रतियोगिकः | तस्मादस्मिन् प्रत्यये ऽनिर्वचनीयत्वस्याविषयत्वात् तत्र प्रमाणतया एतत्प्रदर्शनमयुक्तम् । ' 'विमतं सत्त्वरहितत्वे सति [असत्त्वरहितत्वे सति सत्त्वासत्त्व- गहतँम्, बाध्यत्वात् दोषप्रयुक्तभानत्वाद्वा, यन्नैवं तन्नैवम्, यथा ब्रह्म,' इत्यनुमानमध्यसमीचीनम् | हेत्वोरसिद्धेः । न ह्यस्माभिः प्रपञ्चतदुपा-. दानयोर्बाध्यत्वं वा दोषप्रयुक्तभानवं वाऽभ्युपगम्यते । शुक्तिरूप्यमात्रस्य पक्षत्वे चाप्रसिद्धविशेषणः सः । रूप्यस्यान्यत्र सत्त्वात् । सत्त्वसामान्य- शून्यत्वाभावात् । दृष्टान्तासिद्धेश्च | तथा हि । ब्रह्मणः भवधिकरणत्व-