पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ विशिष्टाद्वैतसिद्धिः प्रथमः इत्यक्षरार्थः । पर्यवसानगत्या तु सदसद्भिन्नमासीदिति लभ्यत इति चेत् सत्त्वेन निर्वाच्चस्य ब्रह्मणः सत्त्वात् सन्नासीदित्येतद् बाधितम् । निषे- धप्रकरणे कस्यचित् सत्त्वप्रतिपादने तात्पर्याङ्गीकारश्चन्याय्यः । तदाना- । मित्यस्यानन्वयश्च । न हि तदानीनेत्र निवाच्यसत्ता भवतामिष्टा I सृष्टानामनिवान्न | न चेष्ट एवानन्वय इति वाच्यम् । एकप दस्थत्वेनात्राप्यन्वयस्य स्वरसांसद्धस्त्र बाधावहत्वंन भवद्भिमतार्थस्थान्याय्यत्वापादकत्वात् । यत्तु सदसच्छन्दों पारमार्थि कापारमार्थिकवाचिन वित. तन्न | व्याघातापत्तेः । न हि पारमार्थिक भिन्नस्य अत एव स्वयमपारमाथिकस्य अज्ञानस्य अपारमार्थिकांभन्नत्वं भवत् । अपारमार्थिकभिन्नस्य वा पारमार्थिवस्य परम् । ननु पारमार्थिकं ब्रह्म । अपारमार्थिकं तुच्छम् । तदुभवभिन्नत्वमविद्याया इति चेन् दत्तोत्तर मेतत् | जगदुपादानभूताया: सत्या एव प्रकृतेः तदुभय- भिन्नत्वमिष्टम् । न च तेन भवद भिमतर्मानवंचनीयत्वं सिद्धयतीति । एतेन अबाध्यत्वमेव पारमार्थिकत्वं सत्त्वं वा । कचिदपि सत्त्वेन प्रतीत्य- नर्हत्वं तु अपारमार्थिकत्वं सत्त्वं वा । एतदुभयानधिकरणत्वमविद्याया अनिवंचनीयत्वमिति प्रत्युक्तम् । प्रपञ्चोपादानभूताया अविद्याया बाध्यत्वे प्रमाणाभावेन अबाध्यत्वानविकरणत्वासद्धेः। अद्वैतश्रुत्या सिद्धयतीति चेत् प्रकृता श्रुतिरनिर्वचनीयत्वसावनाय नालमिति तावदङ्गीकृतं भवति । तथा च अद्वैताभिमानातिरिक्तं किमपि अनिर्वचनीयत्वकल्पनामूलं नास्तीति वज्रलेपायितम् । ४३. ख्यातिभेदः अथ भ्रमस्थ अनिर्वचनीयख्यात मता यदसत्ख्यातिनिराकरणं चिकीर्ष्यते तद्स्मात्रमनुकूलमेव । यत्तु अन्यथाख्यातिदूषणं तदसमीची नम् । भव' ऽननन, आश्रितत्वाच्च । “पूर्वोत्पन्नाविनष्टशुक्त्य- भिन्नतया ग्रहस्यैव तत्र प्रतिबन्धकत्वात्" इति ह्यनुपदं आविद्यकस्य