परिच्छेदः सत्तात्रैविध्यम् १५१ विषयस्य भ्रमे, न तु वस्तु तदस्ति । तेन प्रातिभासिकसत्तेति शशशृङ्गादिपर्याय एव । व्यावहारिकसत्ता पारमार्थिकसत्तेति विभागो- ऽप्यनुपपन्नः । प्रपळ्चस्यापि परमार्थतः सत्त्वात् । नित्यसत्ता अनित्यसत्तेति तु कामं विभागो भवेत् । ब्रह्मसत्तायाः सार्वकालिकत्वात् । प्रपश्वसत्तायाश्च सृष्टिकालमात्रभावित्वात् | स्वरूपतस्तु चेतनाचेतनयोरपि नित्यैव सत्ता | प्रलयेऽपि सूक्ष्मरूपेण सत्त्वात् । तदेवं पराभिमताज्ञानोपादान क्रत्वाभावात् परमार्थसत्प्रकृत्युपादानकत्वाच्च सत्यमेव जगत्, न तु मिध्येति सिद्धम् । दोषैरशेषैः प्रतिपन्नभङ्गं दृश्यत्वलिङ्गं न कथञ्चिदीष्टे । प्रत्यक्षसिद्धस्थिरसत्वभा वे मिथ्यात्वमापादयितुं प्रपञ्चे ॥ श्रीमते श्रितभयद्रुशुष्मणे कालमेचकमनीयवर्ष्मणे । विश्व संहृतिविधानवर्तन- क्रीडया नतिरियं रतिं यते ॥ इति विशिष्टाद्वैत सिद्धौ विभूतिपारमार्थ्यं नाम प्रथमः परिच्छेदः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति