पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः ८ २ १०:•C= १. अखण्डार्थव।दः अथ हेयबन्धनिरूपणनन्तरं उपादेयं ज्ञानं निरूपयाम इत प्रतिज्ञाय अखण्डार्थसाधनायोपक्रमते । तत्र अद्वैतानुसारेण प्रपन्नसत्तैव नोपपद्यत इत्यवचम } शुद्धचैतन्यस्य हि निविकारत्वान् लोकसृष्टौ प्रवृत्तने भवति । नाप्यवद्ययाः। जडत्वात् । नाप्यविद्योपहितस्य ब्रह्मणः। उप- धानस्यासम्भवात् । ब्रह्मणि अध्यस्ता हि अविद्या तदुपदधीत । कष्ट- मध्यासः ? शुद्धचैतन्यस्य निर्विकारस्य स्वतः अध्यासायोग्यत्वात् । अध्यासविरहे अविद्यास्वरूपस्यैवासिद्धेः । न च अनादित्वमत्र परिहाः । कदऽध्यासारम्भ इति चोखा अनादित्वेन परिह्रियेत । न च तच्चोद्यमद्य क्रियते । किन्तु सर्वथाभिमतप्रधानपुरुषयोरिव भबभिमताज्ञानब्रह्मणो- रपि प्रपंचप्रादुर्भावहेतुःखं नोपपद्यत इति । यथा शशे कथं ४ङ्गसम्भवः ?' इति प्रश्नस्य ‘अनादित्वेनइति समधान न भवति । तथा प्रकृते द्रष्ट व्यम् । ततश्च-"नैसर्गिकोऽयं लोकव्यवहारः’ इत्यनेन भाष्येण अपरिहृत एवाक्षेपः । एवं च बन्धहेतोरन्यादृशस्यैव वक्तव्यत्वात् तत्परिहारो- पायेऽपि अन्यादृश एव । न वखण्डथज्ञानरूप इत्येतसिद्धम् । अनुपपन्ना चेयमखण्डार्थता। तथा हि ‘अपर्यायशब्दानां संसर्गा गोचरप्रमितिजनकस्यं” वा “तेषामेकप्रातिपदिकार्थमात्रपर्यवसायित्वं वा अखण्डार्थघमुच्यते । न च लौकिके वैदके वा यस्मिन् कस्मिन्नपि वाक्ये इदं सम्भवति । संसर्गस्यैव वाक्यार्थत्वात् । तदबोधकत्वे वाक्यत्व