परिच्छेदः अखण्डार्थवादः १५३ यत्तु "प्रकृष्टप्रकाशश्चन्द्र इत्यत्य चन्द्रस्त्र रूपमात्र नरत्त्वाद् खण्डार्थ- त्वम् । चन्द्रस्वरूपमात्रपरत्वं वास्य तन्मात्रवुभुत्साप्रयुक्तं "कश्चन्द्रः" इति प्रश्नानुसारान् । अन्यथा प्रश्नोत्तरया वैयवि करण्यापत्ते” रिति; तत्र ब्रूमः । चन्द्रस्वरूपमात्रबुभुत्सया कश्चन्द्र इति पृच्छन् जिज्ञासुः वृद्धेन किं चक्तव्यमपेक्षते । अङ्गुननिर्देशन बांधने तावत वाग्व्यवहारा वर्ज- यितुं शक्यः यदा तु वाचैवोत्तरं देयं भवति, तदा प्रष्टा वृद्धेन किं वक्तव्यनित्यपेक्षत इति विवेचनीयन् | चन्द्र इति वा चन्द्रश्चन्द्र इति वा केवल मुच्यमानं नोत्तरं भवति । बुभुत्सानिवर्तनाक्षमत्वात् । तेन चन्द्रगते यास्मन् धर्मे उक्ते तदर्शनेन अयं चन्द्र इति स्वस्य बांधो जायेन स धर्मो वृद्धेन वक्तव्य इत्येव प्रष्टाऽपेक्षते । तत्र कश्चन्द्र इति प्रश्नवाच्यस्य चन्द्रस्वरूपं किमित्यर्थत्वे तस्य प्रकारान्तरेण बोधांचतु- मशक्यत्वात् तद्द्बोधजनकतद्वृ त्तवर्मरूपं तल्लक्षणं किमित्यर्थात् पृष्टं भवांत । चन्द्रः कः । कीदृशः किल्लक्षण इत्यथं त्वं तु लक्षण त्रुभुत्सा कण्ठाक्ता, स्वरूपवुभुत्साऽर्थसिद्धा । उभयवान धारधर्मविषय एव प्रश्नः । तस्मादुत्तरमपि तद्विषयकम् । अन्यथा वैयवि करण्यात् । अतएव लक्षणवायमिदमुच्यते । अन्यथा लक्ष्यभूतचन्द्रवःक्थं स्थात् । उद्देशवाक्यमिति यावत् । लक्षणस्य च वाक्ये उद्देश्यतावच्छेदकत्वम् । 'यः प्रकृष्टत्रकाशः स चन्द्रः इति । तस्य लक्ष्यः वधारणात् पूर्व ज्ञातत्वावश्यम्भावादनुवाद्य- कोटिप्रवेशः । यदा अचन्द्रवरूज्ञानरहितः कश्चित् व्याम्नि विभ्राजमानं चन्द्रमन्यानि च ज्यांतीषि सम्यग् विलोक्य ततः परं गृहान्तर्गत्वा तत्रत्यं वृद्धं कश्चन्द्र इति वा प्रकृडप्रकाशश्चन्द्रः इति तदीयमुत्तरवाक्यं शृणाति तदा सद्य एव पूर्वदृष्टप्रकृष्टप्रकाशज्याति- र्ण्यक्तिरेव चन्द्र इत्यवधारयति । इदमवधारणं लक्ष वाक्यार्थज्ञानात्तर- कालभावि तत्फलभूतम् । यदा तु चन्द्रवरून विवेकशून्यः अदृष्टज्योति- ११
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति