१५४ विशिष्टाद्वैतसिद्धिः द्वितीयः र्मंण्डलश्च कश्चित् गृहाभ्यन्तर एव स्थितः पूर्ववत् प्रश्नं कृत्वा तद्वदेवो- त्तरं लभते, तदा तस्य वाक्यार्थज्ञाने जातेऽपि इयं ज्योतिर्व्यक्तिः प्रकृष्ट- प्रकाशेति पूर्वमज्ञानान् सद्यश्चन्द्रस्वरूपनिर्धारणं न भवति । बहिर्गत्वा उदीक्ष्य ततः परमवधारयति । एवं पूर्व ज्ञातो वा अज्ञातो वा असा धारणधर्मः लक्षणवाक्ये उद्देश्यतावच्छेदकतया प्रतीतः वाक्यतात्पर्य - विषयो भवति । तस्मात् कश्चन्द्र इति प्रकृष्ट प्रकाशश्चन्द्र इति च प्रश्नोत्तरे केवलस्वरूपविषये इति, लक्षणवाक्येन लक्ष्यस्वरूपावधारणं भवतीति च केवलं भ्रमपरम्परेयम् । गन्धवती पृथिवीत्यतो हि पृथिव्या गन्धवत्त्वं लक्षणमित्येतावद्वगम्यते । तेन पश्चात् गन्धवद्रव्यदर्शने इयं पृथिवीति तत्स्वरूपावधारणं भवति । तस्मात् लक्षणवाक्यजन्यशाब्दज्ञा- नातिरिक्तं तत्कालभूतं लक्ष्यस्वरूपावधारणमिति ज्ञेयम् । लक्षणवाक्यस्यैव उद्देश्य विधेयविपर्यासे लक्ष्यस्वरूपपरवाक्यत्वं भवति । ‘ज्योतिर्मण्डले प्रकृष्टप्रकाशः कः' इति प्रश्ने 'चन्द्रः' इति यदुत्तरं भवति, तेन ‘योऽयं चन्द्रः सः प्रकृष्टप्रकाशः' इति बोधस्य जननात् । ‘प्रकृष्टप्रकाशत्वाश्रयः कः मम जिज्ञासाविषयः' इति हि प्रश्नस्यार्थः । 'यश्चन्द्रः स तदाश्रयः' इति तदनुगुणमुत्तरम् । ईदृशे एव प्रश्नोत्तरे “कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्” इति, “रामो नाम जनैः श्रुतः" इति च । अतः लक्षणपरं वाक्य मन्यत्, धर्मिस्वरूपपरं वाक्यमन्यदिति विवेक्तव्यम् । तत्र लक्षणवाक्यस्य धर्मपरत्वमेव नत्वि- तरवद् धर्मिपरत्वमिति च । एवत्सर्वं बुद्धौ धारयतां, यदाह – “यद्यपि यश्चन्द्रः तत्र चन्द्रत्वं तमोनक्षत्रादिव्यावृत्तिश्चास्तीति मया ज्ञायत एव । तथापि चन्द्रस्वरूपं परं न ज्ञायत इत्यनुभवेन व्यावर्तकव्यावृत्तिविशिष्टस्याजिज्ञासितत्वेन जिंज्ञासितं चन्द्रस्त्ररूपमेव विपर्यय विरोधिज्ञान विशेषं जनयता "प्रकृष्ट- प्रकाशश्चन्द्रः” इति वाक्येन बोध्यत इति किमनुपनं " - इति, तत्सर्वं-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति