विशिष्टाद्वैतसिद्धिः द्वितीयः किञ्च चन्द्रस्वरूपमजानतः चन्द्रपद्स्य पाच्योऽर्थः कश्चिदस्तीति सामान्यतो ज्ञानवत्त्वेऽपि य चन्द्रपद्वाच्य इति ज्ञानं नास्तीत्येव वक्तव्यम् | तेन तदीयस्य प्रश्नस्य चन्द्रपदवाच्यः कः इत्येवार्थः । तद्नु - सारेगोत्तरस्थापि यः प्रष्टप्रकाशः स चन्द्रपदवाच्यः इत्येवार्थ इति स्वरूपलनणायाः वः प्रसङ्गः । प्रकाशवत्वेन तनऋदिव्यावृत्तिः । तत्र प्रर्पेण नक्षत्रादित्र्यावृत्तिः । एतदुभयं च प्रागेव ज्ञातव्तः प्रक्रुष्ट- प्रकाशत्वविशेषणाधीना व्यावृत्तिरजिज्ञासितेति उत्तरे एतद्वशेषणग्रहण- मनुपपन्नमेव I यत्तु रजतभिन्ना शुक्तिरिति निश्चयं सत्यपि यथा इदं रजनमिति विपर्ययो भवति तथा चन्द्रस्वरूपे ज्ञातेऽपि विपर्ययो भवितुमर्हत्येव । तद्धिरोधिज्ञानानु(यद्शायां वश्चन्द्र इांत प्रश्नो युज्यते । तस्य स्वरूप- मात्रविषयत्व त् उत्तरमपि तन्मात्रविपयम् । अत एवाखण्डाथेमिति तद्समञ्जलम् । परीक्षांनश्चये सत्यनि दोषवशान् पीतशङ्खरक्तिरजताद्य परोक्षभ्रमो भवति । तथा किं प्रकृते अयं न तमोविलक्षणः, न प्रकृष्ट- प्रकाशः इति वा इदं तम इति वा प्रत्यक्षभ्रमो भवतीत्याभप्राय: ?. ओमिति चेत् शांच्यो भवान् | न खलु चन्द्रं साक्षालश्यतः कस्यचिदेवं विपर्ययो मचितुनहींत । अथ परोक्ष भ्रमोऽभिप्रेतः सोऽप्यतम्भवी | तम- आदिविलक्षणत्वस्य निश्चितत्त्वात् । न हि शङ्खयाथात्म्यज्ञानवतः कदा- चिदपि तत्पांतिमविषयः परोक्षभ्रमो भवति । एतेन प्रश्नाऽप्यनुपपन्न इति ज्ञापितम् । चन्द्रस्वरूपस्वभावाः सुज्ञातत्वत् | विपर्ययस्य चासम्भावितत्वात् । विपर्ययसम्भवं कृत्वा चिन्तायामपि प्रश्नो न सम्भवति । न हि शङ्खपातिमदर्शी वा शुक्तिरजत- दर्शी वा कः शङ्ख इति वा का शुक्तिरिति वा पृच्छति । एवं च प्रकृष्ट- प्रकाशश्चन्द्र इत्युत्तरमप्यनवकाशम् । एवं तु भवेत् | बालपरीक्षाप्रवृत्तो वृद्धः कश्चित् तं पृच्छति - सौम्य, अस्मिन् ज्योतिर्मण्डले कञ्चन्द्रः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति