परिच्छेदः १५६ ● यत्तु गङ्गासम्बन्धित्वविशिष्टे तालर्याभावेऽपि वस्तुगत्या गङ्गा- सम्बन्धमेव तीरं लक्ष्यत इति तन्न । गङ्गासम्बन्धित्वविशिष्ट एव तात्पर्यात् । अन्यथा शैत्यपावनत्वाद्यभानप्रसङ्गात् । अतो गङ्गाती - एव लक्षणा | तीरत्वेन लक्षणायामपि तीरसामान्यस्यानन्वयात् विशेष- जिज्ञास. यां शक्याथपर्या लोचनयाऽनुपदं गङ्गातीरत्वावधारणाच्च । सर्वथा तत्र शाब्दबोधपर्यवसानात्पूर्वं गङ्गातीरप्रतिपत्तिरस्तीति विभा- व्यम् । गङ्गासम्बन्धित्वपरित्यागेऽपि तीरत्वेन तावत् तीरस्वरूपं लक्ष्यते । न तु कंवलं स्वरूपमिनि च । यच्च ब्रीहीन् प्रोक्षतीत्यत्र ब्रीहिपदेना पूर्व सम्बन्धित्वलक्षणायां वस्तु- मत्या क्रीहित्वाश्रयीभूता एव व्यक्तःयो व्रीहिपदेन लक्ष्यन्त इति तदपि भ्रान्तवचनम् । नहि तत्र त्रीहित्वाश्रयोभूता एव व्यक्तयो लक्ष्यन्ते । `विकृतौ नीवारेषु प्रोक्षणानाः | प्रकृतावेव वैकल्पिकेषु यवेष्वनापत्तेश्च । तस्माद्भवभिमतार्थेऽयमदृष्टान्तः । विपरीतदृष्टान्तस्तु भवेत् । यथा व्रीहिपदेन लक्षणया अपूर्वसाधनालक्षणात् त्रीहिव्यांतरिक्तद्रव्येष्वपि प्रोक्षणं भवति तथा प्रकृते चन्द्रादिपदेन केवलं स्वरूपं लक्षितं चेत् चन्द्रातिरिक्तकिंचिद्वस्नुस्वरूपमपि बुभुत्सितं ज्ञापितं च स्यादिति । अखण्डाथवादः , यत्तु प्रकृष्ट प्रकाशाश्रयत्वस्योद्दे श्यतावच्छेदकत्वे चन्द्रप्रातिपदिका- थत्वं दुर्वारमिति तत् कथमिति वक्तव्यम् । न हि घटो नील इत्युक्ते उद्द श्यतावच्छेदकस्य घटत्वस्य नीलप्रातिपदिकार्थत्वं भवति । लक्षण - वाक्ये तदुक्तमिति चेत् की विशेषः | उच्यते । अयं विशेषः । यः प्रकृष्ट- प्रकाशः सः चन्द्रः चन्द्रपदवाच्यः इत्यर्थः । तत्र चन्द्रपद्वाच्यता प्रकृष्टप्रकाशत्वविशिष्टे धर्मिरिंग प्रतीयते । तत्र विशेणस्य विशेष्यनिष्ठ- चाच्यताबामवच्छेदकत्व भवति । तेन तद्विशेषणस्यापि तत्पदवाच्यत्व- मापतति । पदवाच्यस्यैव धर्मस्य पदवाच्यावच्छेदकत्वादिति चेन्न । चर्मिविशेषस्य पदविशेषवाच्यत्वमुच्यते । कः स धर्मीति विशिष्य
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति