१६२ विशिष्टाद्वैतसिद्धिः 'वस्तु' इति वा 'चन्द्र' इति वा केवलं वक्तव्यं स्यात् । ननु स्वरूपमात्रजिज्ञासया प्रश्नः क्रियते । तद्बोधनप्रवृत्तेन तद्रूपाय- तथा व्यावर्तऋधर्मोऽभिधीयते । अथाप्यस्याजिज्ञासितत्वात् प्रतिपाद्यत्वानु- पपत्त्या जिज्ञासितस्वरूपलक्षणाऽऽश्रीयत इति चेन्न | स्वरूपबांधापातया वृद्धेन व्यावर्तकधर्मोऽभिधेय इति प्रष्टुरभिप्रायोऽस्ति न वा ? आवे साक्षात् स्वरूप इव तत्प्रतिपत्त्यर्थतया व्या वर्तकधर्मेऽपि बुभुत्ला तात्पर्य च स्त एव । अन्त्ये प्रतिपत्त्युपायतयाऽपि न वक्तव्यं प्रष्टुरनभिप्रेत- त्वात् । अन्यथा प्रश्नोत्तरयोवैयधिकरण्यात् । अत एव लक्षणया स्वरूप - मात्रपरत्वमिति चेन्न । प्रक्षालनाद्धि पङ्कस्येति न्यायेन स्वाधीने शब्दप्रयोगे विना प्रयोजनं लाक्षणिकप्रयोगायोगात | गङ्गायां घोष इति लाक्षणिकवत् गङ्गातीरे घोष इति मुख्यप्रयोगोऽपि हि शक्यः कर्तुम् । तथा स्वरूप- विशेषश्चन्द्र इत्यपि मुख्यवृत्तमुत्तरं स्यात् । न चैवं कदाचि भवति । नियमेन तु विशिष्टवा चक्रमेव पदमुत्तरवाक्ये प्रयुज्यते । तस्मान् विशिष्टमेच बुभुत्सितं बुत्रोधयिषितं चेति तत्त्रे स्थिते अखण्डार्थदुरनु- मानदृष्टान्तसम्पादनार्थमेव एवमेतद्वाक्यकदर्थनमिति हस्तामलक- मेतत् । 1 इदं चात्र वक्तव्यम् । प्रकृष्टप्रकाशपदार्थस्य चन्द्रपदार्थस्य च पर- “स्परमन्वयोऽस्ति न वा | आद्येऽखण्डार्थत्वमङ्गः । अन्त्ये वाक्यत्वहानिः । परस्त्ररान्वितार्थऋपदसमुदायस्यैव वाक्यत्वात् । गौरश्वो घटः पट इत्या- देरवाक्यत्वात् । नन्वस्त्येव प्रथमं विशिष्टार्थान्वयबोधः । तेन बुभुत्सि- तम्य चन्द्रप्रातिपदिकार्थस्य विपर्ययविरोधि ज्ञानमपि भवति । तेन वाक्यलक्षणं सुस्थम् । किन्तु तावति विश्रान्तिश्चेत् स्वरूपमात्रविषय- प्रश्नवैयाधिकरण्यापत्त्या तत्परिहाराय स्वरूपमात्रल (IISऽश्रोत इति चेत् श्रूयताम् । स्त्ररूपविषयो यादृशी बोधः प्रष्टुरिष्टः सः वाक्येन विशिष्टान्वयबांधे जाते सम्पन्नो न वा । आद्ये तदतिरिक्तस्वरूपत्राध- द्वितीयः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति