पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ विशिष्टाद्वैतांसद्धिः द्वितीयः निरतिशयबृहत् ब्रह्मशब्दार्थः । तदिदं ब्रह्म लक्षातः कीदृशमिति जिज्ञा- सायां सत्यं ज्ञानमनन्तं ब्रह्मेति तल्लक्षणमुच्यते । यद्यपि यो वेदेत्युक्त- वेदनकर्मकारकत्वात् द्वितीयान्तानि इमानि पदानि, तथाऽप्यर्थसिद्धं प्रथमान्तपद्घाटतं वाक् मेतदिति ज्ञयम् | यन् सत्यं ज्ञानमनन्तं च तत् ब्रह्म निरतिशयबृदिति वाक्यार्थः | सत्यत्वं एकरूपतया सर्वदा विद्यमानत्वम् । अनेन प्रकृरिव तस्य विक्रिया नास्तीति लभ्यते । ज्ञानत्वं नित्या संकुचितज्ञानवत्त्वम | अनेन बद्धमुक्त जीववैलन एवं ख्याप्यते । अनन्तत्वं त्रिविधपरिच्छेद तिम् । अनेन नित्या व्यावृत्त: । एवं च अनेन वाक्येंन धर्मत्रयमिदं ब्रह्मलक्ष मिति ज्ञायते । एतल्लक्षणज्ञाने सम्पन्ने च प्रमःणवाक्येषु तत्र तत्र प्रतिपाद्यं वस्तु ह्मेति वा नेति वा निश्चयां भवतीति लक्षणज्ञानफलमेतत् । एवं पदैवाक्येन च विशिष्टस्यै- वार्थस्य प्रतिपादनात् नात्राखण्डार्थत्वगन्धोपि । एतेन सत्यादिवावयम खण्डाथनिष्ठं, ब्रह्मप्र निपदिकार्थनिष्ठं वा । लक्षणवाक्यत्वान् | तन्मात्र- प्रश्नोत्तरत्वाद्वा | प्रकृष्टप्रकाशश्चन्द्र इत्यादिवाक्यवदिति पदार्थविषया- खण्डार्थत्वानुमानमसमीचीन मिति ज्ञातुं शक्यम् | प्रथमहेतार प्रयोजक त्वान् । द्वितीयस्यासिद्धः | दृष्टान्तस्य साविकलत्वान्, द्वितीय हेतुवित्रल- त्वाच्च | साध्याप्रसिद्धिश्च सुवचा संसर्गाांगांचर प्रांतिजनकत्वरूपस्या- खण्डार्थत्वस्य क्याप्चदशनान | निर्विकल्पकस्याप्यस्मन्मते संसर्गाव- गाहित्वात् । ५ ● यत्तु प्रम'त्व संसर्गागोचरवृत्ति सकलप्रमावृत्तित्वान् अभिधेयत्ववाद- त्यनुमानं तत् आभासतुल्यं प्राक्तनानेक नुमानवदुपहास्यम् । शक्यं हि मनुष्यत्वं चतुष्पावृत्ति सकलमनुष्यवृत्तित्वान् अभिधेयत्ववदित्यनुमानं प्रयोक्तम् । न चानुकूञ्जनभावः । अन्यथा चतुष्पदःमत्यन्तमपकर्षापत्ते- स्तर्कस्य सत्वात् । भवदीयानुमानस्य तु स नास्ति । प्रश्नोत्तरयोर्वैय- धिकरण्यस्य परिहृतत्वात् । सत्यादिवाक्यं संसर्गावगाहिबोधजनकं