श्रीः
विशिष्टाद्वैतसिद्धिः
उपोद्धातः
चतुश्चत्वारिंशतो वत्सरेभ्यः प्राक् अस्माकं वेदान्तश्रवणं सम्पन्नम् । श्रीभाष्यमधोयाना वयं न परं तेन प्रतिष्ठापिते विशिष्टाद्वैते अपि तु तेन सविस्तरं विमृष्टे अद्वैतेऽपि गाढपरिचया अभयाम । विराष्टाद्वैतिनां कुले लब्धजन्मनां अस्माकं तस्मिन् दर्शने अनुरागातिशयः अन्यत्र अनादरश्च यशभविष्यतां लोके सर्वसाधारणतया दृश्यमानस्य मनुष्य स्वभावस्य अनुरूपमेव तत् । परं तु औत्सर्गिी इयं मनोवृत्तिः अस्माकं नासीत् । चतुर्धा निमील्य अस्मदोयमित्येकत्र आद्रः परकीयमित्यन्यत्र अनादरश्च नैव कायः । परस्परविरुद्धे द्वे अपि दर्शने सत्ये इति न कदा- चिद् भवितुमर्हति । अतोऽन्यतरत् प्रामाणिकं दर्शनं, इतरन्नेति स्थिते कतरत् प्रामाणिकमिति यत्नेन परीक्ष्य अवधारणीयमिति महत् कुतूहूल सजायत । तदनुगुणा प्रवृत्तिः तदा जाता अद्याप्यनुवर्तते । किन्तु अद्वैतं शोभनं दर्शनमिति प्रतिपत्तुमद्यापि न शक्नुमः । यथा यथा चिन्त्यते तथा तथा प्रबला अनुपपत्तयः स्फुरन्ति । यस्य साहय्येन आसां परि हारो भवेत् । तादृशो यः कोऽपि प्राचीनो नवीनो वा अद्वैतग्रन्थो नास्ति, न लभ्यते ।
अर्जेनस्य गौडपादोपज्ञत्वेऽपि तत्प्रतिष्ठापकप्रथमाचार्यत्वं श्रीशङ्कर स्येत्येतन्निर्विवादम् । स तावत् किमाहेति प्रथमं किञ्चित् पश्येम । यदेष विरुद्धस्वभावयोः आत्मानात्मनोः मिथोऽध्यासमुपपादयति तत् स्थाणु पुरुषयुक्तिरजतदिसर्वभ्रमस्थलसाधारणम् । आत्मानात्मनोविंरुद्व स्वभावतया मिथो भेदे असिद्धे अध्यासो नोपपद्यते । अबाधितप्रतीति