परिच्छेदः अखण्डार्थवाद : १६७ इति विशेषःभिधानमनिरूपकत्वविजृम्भितमिति ज्ञेयम् । एवं चोभ- यत्रापि अन्वयानुपपत्तेर्वा तात्पर्यानुपपत्तेर्वा सर्वथा विरहात न स्वरूप - लक्षणाप्रसङ्गोऽस्ति । एतेन "लक्षणया ऐक्यबोधनं तूभयत्र समानम् । लाक्षरिणकत्वेऽपि दण्डी कुण्डलीत्यादौ विशिष्टतासर्यान्नाखण्डार्थत्व- व्यवहारः । सोऽयमित्यत्र तु "अयं सः न वा ? अयं नैव सः” इत्यादि- संशयविपर्ययज्ञानविषयीभूताभेदमात्रस्य वुभुत्सितत्वेन तत्रैव तात्पर्याद खण्डार्थत्वम् । न ह्यन्यस्मिन् बुभुत्सिते अन्यत्प्रतिपादयितुनुचितमित्यु- क्तम् । तत्तेदन्तोपस्थितिद्वारकाभेदबः धस्यैव भेदभ्रमविरोधितया नान्य- तरपदवैयर्थ्यम्।” इति यदुक्तं तन्निरस्तम् | लक्षणया स्वरूपमात्रपरत्वे कुतो विशिष्टे तात्पर्यम् । विशिष्टे तात्पर्यं चेत् कुतो लक्षणाश्रयणम् ? व्याहतं ह्येतत् लक्षणया विशेषणपरित्यागे न विशेष्यमात्रमुच्यते वशिष्टे च तात्पर्यमिति । विशिष्टे तात्पर्यं चेत् स एव पदार्थः । तत्र चन लक्षणापेक्षा । विशिष्टयोरेव पवाच्यत्वात् । अनन्वयालक्षणेति चेत् तर्हि अनन्विते अत एव वाक्येन बोधयितुमशक्ये कथं तात्पर्यं स्यात् । अनन्वयश्च नास्तीत्युपपादितम् । यो दण्डवान् सः कुण्डलवान् इति विशिष्ट वाचकाभ्यां पदाभ्यां विशेष्यमात्राभेदबोधनस्य पदार्थः पदार्थे - नेति न्यायसिद्धत्वात्। ‘विशिष्टैक्ये विशेषणैक्यमपि भवेत्' इति भवदा- क्रोशस्य मृदुप्रज्ञवित्रासनक्षर्माबभीषिकामात्रत्वात् । न खल्वेवं क्वचिद् दृष्टम् । दृष्टन्तु घटो नीलः, गौर्गच्छति; अयं घटः, एष देवदत्त इत्यादि तूयिष्ठं यत्र जातिगुणक्रियासंज्ञा विधेया उद्देश्यविशेष्यमात्रान्वयनो भवन्ति । घटो ज्ञातः, पटो दृष्ठः, इत्यादिषु विशेषणेषु विधेयान्वय आर्थिकः न तु शाब्दः । व्युत्पत्तिविरोधादित्युक्तम् । तस्माद्दण्डी कुण्ड- लीत्यत्र लक्षणाया नैव प्रसङ्गः । एवमेव सोऽयमित्यत्रापि । न हि केवलोऽभेदो वा यत्किञ्चित्वरूपाभेदो वा संशय विपर्ययज्ञानविषयीभूतः । किन्तु अयं अद्यान वर्तमानो दृश्य-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति