१६८ विशिष्टाद्वांसः द्वितीयः मानो वार्किंसः यः पूर्वं तत्र स्थितो दृष्टो वा उतान्यः इति विशिष्टा- भेद् एव । तेन तत्रैव वाक्यतात्पर्यम् । स च लक्षणा विनैव बाध्यत इति कोंऽत्र भवतां कुसृतिकल्पनावकाशः | तत्तेदन्तो स्थितिद्वारका- भेद्बोधस्यैव भेदभ्रमविरोधित्वं वदता च विशेषगापेक्षा प्रकटता । तथा चापेक्षिनस्य पदशक्तयाँपस्थितस्य विशेषणस्य परित्यागाय अबुभुत्सि- तत्वं अतात्पर्यविपयत्त्रं लक्षणां च को नु स्वस्थहृदयां वर्णयेदाकर्णयद्वा । लक्ष्यं च स्वरूपं किं त्वरूपत्वनैव भाति अथवा इदंस्वरूपत्वन तत्स्वरूप- त्वेन च । आद्ये संशयविनर्ययानिवर्तकत्वापत्तिः । न हि अयं स न वा इति संशयस्य नैव सः इति विपर्ययस्य च स्वरूपं इति ज्ञानेन निवृत्तिर्भ - वेत् । द्वितीये अखण्डार्थत्वं दूरनिरस्तम् । अत एव निर्विकल्पकामिला- पोऽयं न भवति । नैबायक' निमतस्य निर्विकल्पकस्याव्यपदेश्यत्वात् । अस्मदभिमतस्य सप्रकारकत्वान् । प्रत्यभिज्ञाया निर्विकल्पकत्वाभावेन तमिलानकस्य अयं देवदत्तः सः इत्यस्य वा स देवदत्तः अयमित्यस्य वा वाक्यस्य निर्विकल्पकप्रत्ययजनकत्वायोगाच ननु तत्तेदन्नोपलक्षितं स्वरूपं भातीति चेन्न । उपलक्षितत्वस्य विशे- षणत्त्रे अखण्डत्वभङ्गान् । उपलक्षणत्वे उपयुपरि तथेति अनवस्थाप्रस- ङ्गात् । किञ्च तत्तेदन्तयोरुपलक्षणत्वमसम्भवि | तत्ता नाम देशान्तरा- वच्छेदेन अतीतकालदर्शनविषयत्वम्, 'तत्र पूर्व दृष्टः' इत्यमिलापाहम् | इदन्ता नाम पुरोदेशावच्छेदेन वर्तमानकालदर्शनविषयत्वं, 'अत्राद्य दृश्यते' इत्याभलापार्हम् । न चेदमुभयं चैत्रस्वरूपे नास्ति येनोपलक्ष स्यात् । अथ तत्तदन्तयाने बोधविषयत्वमङ्गीक्रियते, येन विशेषत्वा- 'पलक्षणत्वविकल्पस्यावकाशः स्यात् । स्वरूपमात्रं तु बोधविषयत्वव्यञ्ज- नायैव नयःरुपलक्षकत्ववाचायुक्तरिति चेत् तर्हि स्वरूपं स्वरूपमिति पदद्वयेन प्रतिपादने अनन्ववत् वाक्यस्यार्थशून्यत्वमेव स्यात् । एवं दृष्टान्तभूतस्य सोयमिति वाक्यस्य साध्यविकलत्वात् तत्त्वमसि •
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति