पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः अखण्डार्थवादः १६६ पूर्वचन , वाक्यस्य अखण्डार्थत्वमनुमानेन न साधयितुं शक्यम् | साध्याप्रसिद्धिा कार्यकारणद्रव्यमात्र निष्ठत्त्रे सति समानाधिकरणत्वात् इति हेतोरसिद्धिश्च । सार्वज्ञ्यादिविशिष्ट निष्ठत्वेन द्रव्यमात्रनिष्ठत्वाभावात् । उपादानभूतस्य कार्यकारणरूपस्य ब्रह्मणः कार्यकारण भिन्नत्वाभावाच्च । तन्मात्र प्रश्नोत्तरत्वादिति द्वितीय हेतुरप्यसिद्धः । कोऽहमिति कल्पितस्य प्रश्नस्य कञ्चन्द्र इतिवदेव विशिष्टनरत्वेन तन्मात्रपरत्वाभावात् । अहं कः ? किमात्मक इति प्रश्नार्थः । ऐतदात्म्यमिदं सर्वमित सर्वस्व तदात्मकत्वे उक्त विशिष्य स्वस्यक आत्मा, इति जिज्ञासा श्रोतुः स्वरसतो भवति । अतः सखण्डार्थ एवायं प्रश्नः । वस्तुतस्तु तत्र यस्य कस्यादि प्रश्नस्य नावकाशः । “उद्दालको ह्या- रुणिः श्वेतकेतुं पुत्रमुवाचं स्वप्नान्तं मे सोम्य विजानीहीति" इत्युपक्रम्य श्वेत के तुप्रश्नं विना स्वयमेव पित्रा कृत उपदेशः " स एषाणिमा | ऐतदा- त्म्यमिदं सर्वम् | तत्सत्यम् । स आत्मा | तत्त्वमसि श्वेतकेतो ।" इत्येत- दन्ती निबद्धः । तत्र "सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ।” इत्यात्मलक्षणं प्रथममुक्त्वा ऐतदात्म्यमिदं सर्वम्" इति सर्वस्य जगत- •स्तदात्मकत्वमभिधाय एव शरीरात्मनिबन्धनमेव 'सदेव सोम्येद्, 'तदै - क्षत बहु स्यमिति' इति पूर्वोक्तं जगद्ब्रह्मणो: सामानाधिकरण्यमिति ज्ञापनाय तथा निर्देशमन्ते चिकीर्षन् आचार्यः श्रोतरि पुत्रे तं चकार । ततः परं ब्रह्मणो विशेषान्तराणि जिज्ञासमानेन श्वेतकंतुना 'भूय एव मा भगवान विज्ञापयतु' इति पुनः पुनः पुष्टः सः तं तमुपदेशं कृत्वा तत्त- दन्ते स य एषोऽणिमा ऐतदात्म्यमिदं सर्वम् । तत्सत्यम् । स आत्मा । तत् त्वमसि श्वेतकेतो” इत्येतदेवावर्त्य उपसंहारमकरोत् । अतो नेदं प्रश्नोत्तरम् । अखण्डार्थत्व साधनाय न ह्यन्यस्मिन् बुभुत्सिते अन्यद् वक्तुमुचितमिति युक्तिलःभज्ञोभेन पूर्वोत्तर परामर्श विना कल्पितोऽयं . १२